This page has not been fully proofread.

एकादशः सर्गः ।
 
हा हा हताः स्मः सर्वेऽमी मैवं भोः कपिभिर्जितम् ।
मा स्म वल्गत यूथेशाः संशयस्थावुभाविमौ ॥ १०५ ॥
वात्ययं केवला नोभौ शब्दमात्रमिदं न तौ ।
न दैत्यो न च तारेयो रेणुरेकैव राजते ॥ १०६ ॥
चतुष्पाणि चतुष्पादमसलग्नानद्वयम् ।
ताभ्यामन्यदिदं भूतं बत निर्मितमद्भुतम् ॥ १०७ ॥
इत्यन्योन्यमुपारूढवितर्कोत्फुल्लैलोचनाः ।
 
कपयश्चिन्तयामासुः पश्यन्तः प्रधनं तयोः ॥ १०८ ॥
 
युयुधाते महायोधौ तावदृष्टचरौ चिरम् ।
श्वेतपर्वणि संरब्धौ रुद्रवैवस्वताविव ॥ १०९ ॥
 
युगपज्जग्मतुर्मोहं युगपज्जग्मतुर्महीम् ।
उज्जग्मतुश्च युगपत्तौ मिथः सुहृदाविव ॥ ११० ॥
मुहुर्वान्तसफेनात्रौ तौ विस्रस्तशिरोधरौ ।
जग्मतुर्जीवसन्देहं वालिदुन्दुभिनन्दनौ ॥ १११ ॥
अत्यशेताङ्गदं दैत्यस्त्वच करणयोग्यया ।
तिरश्चकार तारेयस्तरसैवाद्भुतेन तम् ॥ ११२ ॥
तुष्टुवे सुरसंघातैः कपिभिश्च कपीश्वरः ।
अव्याजवाहुद्रविणस्तेनैवैकेन दानवः ॥ ११३ ॥
प्रविष्टोऽङ्गददोः पाशं दैत्यो निष्क्रान्तलोचनः ।
मुमोच सार्धमसुभिर्नादं नाकिभयङ्करम् ॥ ११४ ॥
तमुद्यर्म्यं महाकायं दर्शयित्वा दिवौकसाम् ।
महाबलो वालिसुतश्चिक्षेप लवणाम्बुधौ ॥ ११५ ॥
 
१०१
 
१. B C वैषरेचकी । २. D मसमग्रा । ३. BC लव । ४. BCD रङ्गदैत्यः । ५. Aरः । ६.
BCD दस्य