This page has not been fully proofread.

एकादशः सर्गः ।
 
इत्युत्प्लुत्य विलोक्याशाः पुनः स तमभाषत ।
यत्सत्यमनुकम्पा नस्त्वय्यनाथे बिलौकास ॥ ८१ ॥
 
शयालो बिलमुत्सृज्य शेष्वान्यत्र यथासुखम् ।
स्वनायितसमे कोपः कोऽस्माकं त्वद्विकत्थने ॥ ८२ ॥
 
अथासावास्थितद्वारो वानरेन्द्रगणेश्वरः ।
प्रजज्वालार्धचन्द्रेण लब्धेनासुरतोयधेः ॥ ८३ ॥
 
प्रतलैर्मुष्टिभिष्ट॑र्दुमैरश्माभिराद्रीभः ।
प्रजङ्गे च यथाक्रोधं प्रहारक्रमकोविदः ॥ ८४ ॥
 
तदा क्षणमन्दाक्षनिद्रावलनवञ्चनैः ।
विजिग्ये वालिपुत्रस्य दैत्यो द्रिद्रुमदुर्दिनम् ॥ ८५ ॥
 
स चकार महावीर : सामीरेरपि विस्मयम् ।
गिरिदृष्टौ विशिष्टायामविशिष्टेन वर्ष्मणा ॥ ८६ ॥
नगैरङ्गदमुक्तैस्तैस्तस्य लोमापि न क्षतम् ।
प्रतिघातप्रतीपैस्तु स्वैव निष्पिपिषे चमूः ॥ ८७ ॥
बिसदण्डानिवादाय हस्ताभ्यां स महातरून् ।
पश्यत्सु कपिसिंहेषु बभञ्जासुरकुञ्जरः ॥ ८८ ॥
अपादशिखरं विन्ध्यमद्रुमं दण्डकावनम् ।
स्थलीरलोष्टपाषाणाश्चक्रे वितथमङ्गदः ॥ ८९ ॥
 
क्रूरं मुसलमुद्यम्य दर्पात्स्मेरस्तमब्रवीत् ।
दैत्यो धुतसमस्तात्रमपि धाम दुरासदम् ॥ ९० ॥
हेलावहतगीर्वाणभटास्थिकणगर्भिणीम् ।
ईक्षमाणोऽपि जयसि त्वमस्य मुखमेखलाम् ॥ ९१ ॥
इति ब्रुवाणस्य जवादाक्षिप्तेनाक्षुनोद्भैली ।
तेनैव मुसलेनास्य मुखोलूखलमङ्गदः ॥ ९२ ॥
 
१. BC क्षमानु. २. A चञ्चलैः । ३. A यद्या । ४. Bद ।