This page has not been fully proofread.

*
 
दुर्दमदमनो नाम
 
तं राजपुत्रापशदं कथं च बहुमन्यसे ।
पार्श्वकेण पिधाय स्वं पितुस्ते निजधान यः ॥ ६९ ॥
मा ग्रहीस्तस्य नामापि हृतभार्यस्य रक्षसा ।
संभृतात्मजिगीषस्य यस्यास्था वानरेष्वपि ॥ ७० ॥
तस्य पित्रा निरस्तस्य को ददाति प्रतिश्रयम् ।
ऋते रविसुताज्जाल्मादेकोदरवधैषिणः ॥ ७१ ॥
राघवो वालिनः शत्रुः पौलस्त्यो वालिनः सुहृत् ।
कथं ते वालिपुत्रस्य वृत्तिर्विसदृशी तयोः ॥ ७२ ॥
हितारोचकिभिर्मुग्धैः परिविष्टस्य तेऽधुना ।
आत्मशत्रोरिव व्याधिर्न व्यामोहो विर॑स्यति ॥ ७३ ॥
 
अद्यापि प्लवसे बाल बहिरेव रणोदधेः ।
अभिषेणयसि प्रष्ठैः क्रोष्टुभिर्यन्मृगाधिपम् ॥ ७४ ॥
दैत्योऽहं दुर्दमो नाम दुन्दुभेः सदृशः सुतः ।
श्रुतः सुभटगोष्ठीषु प्लवङ्गमशिशो न ते ॥ ७५ ॥
मयानुरोधेन मया विलेऽनन्यजनाविले ।
कालोऽयमरिसत्कालो नीयते वचनीयते ॥ ७६ ॥
ससैन्येन त्वया सार्धं मम निद्रासुखच्छिदा ।
स यास्यतीन्द्रः सोपेन्द्रो निद्रामद्य निरायताम् ॥ ७७ ॥
ममोद्भोधितकण्डूतेस्त्वयैकाहतिनाशिना ।
निकामनिकषस्तम्भो भविष्यति भुजस्य कः ॥ ७८ ॥
तिष्ठ प्रहर सारं ते कलयामि किशोरक ।
बिभेषि चेन्निवर्तस्व क्लीबे कारुणिका वयम् ॥ ७९ ॥
 
तमुवाचाङ्गदः क्रुद्धः क्रमः केनातिवर्त्यते ।
अनुधावस्व पितरं करोमि सदृशं पितुः ॥ ८० ॥
 
१. A ह। २. B नश्य । ३.D Bप । ४ BC स्मिन्नञ्जनाविले । C D नजना ।