This page has not been fully proofread.

एकादशः सर्गः ।
 
करेणादाय लाङ्गूलं तेन व्योमाङ्गणे वयम् ।
भ्रामयित्वोज्झिता भूमौ वमन्तः शोणितं मुखैः ॥ ५७ ॥
उच्चचाल तदाकर्ण्य कुपितः किञ्चिदङ्गदः ।
तं जाम्बवद्वायुसुतावपीशं नानुजग्मतुः ॥ ५८ ॥
एककः प्रार्थयामास महत्तद्भूतमङ्गदः ।
प्रवेशयन्ति सन्देहं न बहून्वाहुशालिनः ॥ ५९ ॥
तस्य तन्मत्सरान्धोऽपि दैत्यस्तुष्टाव सौष्ठवम् ।
करोति गुणसंवादो बलेन हि वशंवदम् ॥ ६० ॥
ऊचे सेनापरिक्षिप्तः सोऽवलिप्तमिदं वचः ।
अनेकनायकन्यासविकटाङ्गदमङ्गदम् ॥ ६१ ॥
यत्सत्यं वालिनः सूनुरनुक्तोऽपि प्रतीयसे ।
प्रसूयतेऽपकृष्टोऽपि नामृगेन्द्रं मृगाधिपः ॥ ६२ ॥
 
इदं त्वसदृशं वाल यद्वालिरिपुकिङ्करः ।
दुर्गत्यर्थीव गृहाँसि बहुदुर्गामिमां दिशँम् ॥ ६३ ॥
शत्रुसन्ततिपक्षेऽपि किं वयं न गवेषिताः ।
कस्तेऽभूद्वालिविश्वासः पितृव्ये पितृविद्विषि ॥ ६४ ॥
 
क्व नु सवत्सलः श्रीमान् क्व नु विद्वाननास्तिकः ।
क्व नु शक्तः क्षमाशीलः क्व नु कुल्यप्रियः प्रभुः ॥ ६५ ॥
 
आपृच्छ्य तौ चीरभृतौ चिरव्युषितमत्सरः ।
विस्रब्धं त्वयि दुष्पाज्ञ स प्राज्ञः प्रहरिष्यति ॥ ६६ ॥
 
3
 
अद्यापि चेचेतयसि पितुः स्मरसि चोन्मनाः ।
आपन्नगृह्यान्भज नः त्यज दायाददासताम् ॥ ६७ ॥
किं ते किष्कन्धया कार्यमनार्यकपिजुष्टया ।
 
चिरमास्व ममा श्वासाद्धिलेऽस्मिन्वालिनोऽधिकः ॥ ६८ ॥
 
१. A वध्येषान्नाभि । २. A मुद्रा ३. A शिव ४. BC शाम् । D महीम् । ५. BC मम स्वत्वा ।