This page has not been fully proofread.

दुनो नाम
 
ते चोपसस्रुः शनकैरनीकस्य मुखानि ये ।
ते चक्रुर्घनमाश्लेषं ये वक्षांसि भुजाश्च ये ॥ ४५ ॥
ननर्त नमिताग्राङ्घ्रिः स्कन्धयोर्गन्धमादनः ।
ववल्गोन्नतलाङ्गूलः शरभः शिरसि क्षणम् ॥ ४६ ॥
लम्बमानो बभौ कण्ठान्निष्कम्पो निष्कवनलः ।
लग्नो मुक्तागुणे गाढं नीलो नायकतां ययौ ॥ ४७ ॥
तिरश्वकार केयूरं कुमुदः क्रान्तकूर्परः ।
 
ऋषभः शुशुभे तिष्ठन्नवष्टभ्य शिरोमणिम् ॥ ४८ ॥
वीरौ च मैन्दद्विविदौ व्यधत्तां मणिबन्धयोः ।
जात्यजाम्बूनदच्छेदरुचा रुचकविभ्रमम् ॥ ४९ ॥
मावेशयद्भीममुखः शूले नासान्तरालयोः ।
चिक्षेप चक्षुषोः पांसुमंसारूढो दरीमुखः ॥ ५० ॥
दन्तैर्दन्तच्छदपुढं पाटयामास दुर्मुखः ।
शब्दोत्तरां च मुखरः केशान्ते कर्तरीं दधौ ॥ ५१ ॥
 
पनसत्रुटिशश्चक्रे कटीमाक्रम्य कङ्कटम् ।
इन्द्रजानुश्च जानुस्थश्चीरग्रन्थिममोचयत् ॥ ५२ ॥
इत्यभीक्ष्णं क्षपयतः कपीनुच्चावचानसौ ।
प्रतिप्रतीकमधुनान्महोक्ष इव मक्षिकाः॥ ५३ ॥
विजित्य मूर्च्छामुत्पुच्छा: कपयो भूरजविताः
क्रुद्धास्तं पुनराजग्मुः जग्मुर्विप्रकृताः पुनः ॥ ५४ ॥
 
ऊचुश्च ते वालिसुतं वयं भग्नाः स्वयं भवान् ।
गत्वा मन्त्रबलेनाशु बिलाद्यालमपोहताम् ॥ ५५ ॥
छिन्ना: सटाः शिरः पिष्टमुरः पृष्ठं च पोथितम् ।
मुक्ताः स्मो मृतसंकल्पाः ते निमीलितचक्षुषः ॥ ५६ ॥
 
१. BC D तामगात् ।