This page has not been fully proofread.

एकादशः सर्गः ।
 
कपयः प्रतिवोधाय महाकायस्य तस्य ते ।
 
चक्रुः लीनाः कलकलं मशका इव कर्णयोः ॥ ३३ ॥
 
बुबुधे विबुधोन्माथी समनह्यन्त यूथपाः ।
जहास प्रत्यभिज्ञाय तानसौ पुनरागतान् ॥ ३४ ॥
 
पप्रच्छाङ्गदमालोक्य कोऽयं तस्यैष वालिनः ।
दैवदोषादनार्येण ह्तो येनार्यदुन्दुभिः ॥ ३५ ॥
 
किमर्थमिममुद्देशं वह्वपायमुपागतः ।
कच्चिन्मार्गति सुग्रीवमादेशादेष वालिनः ॥ ३६ ॥
 
हत्वा वा वालिसुग्रीवावयमोत्थितो युवा ।
अनर्जितां स्वप्रवरैर्जिगीपति महीमिमाम् ॥ ३७॥
 
इत्युवाच स तानृक्षैप्लवगान् प्रमना इव ।
समृद्ध साहस रसँप्रातराशमनोरथः ॥ ३८ ॥
 
स्वं स्वं वदत विज्ञानमितो भवत संभृताः ।
सर्वानेव कुलारातीन् दोश्शाली दलयामि वः ॥ ३९ ॥
 
अयमुन्मौलिरथवा शरणं रणवर्जितः ।
 
प्रणम्य यातु चरणौ रणौत्सुक्योत्थितस्य मे ॥ ४० ॥
 
संनाहकृतवेगैस्तैः संनाहं भ्रमयन्बली ।
दितिभूश्चक्षमे दर्पादिति भूरि वदन्नसौ ॥ ४१ ॥
केचित्तमाक्रान्तबिलं विलङ्घितपुरस्सराः ।
जघ्नु: प्लवङ्गास्तरुणास्तरुणार्कनिभाननाः ॥ ४२ ॥
 
अम्पेऽवर्षन् शिलाजालं लाजालतिपेशलम् ।
असौ यदूहे शिरसा रसादिव महासुरः ॥ ४३ ॥
 
९५
 
स्फुरन्महोल्लासहसा सहसा तन्मुखद्युतिः ।
 
रजनीवॅ रविच्छायान् विच्छायानकरोत्कपीन् ॥ ४४ ॥
 
१. B C D नुक्त्वा । २. B C D सात्म्यसमर । ३. BCD सहसामी ४ A रथवारण । ५. BC च