This page has not been fully proofread.

दुर्वमदमनो नाम
 
योऽस्तु सोऽस्तु मतेऽस्माकमतिविस्मयकारणम् ।
स्तोतव्यो विलवास्तव्यः सोऽवलेपकलो युवा ॥ २२ ॥
 
के वयं वायुपुत्राद्यैरप्यमीभिस्तवानुगैः ।
अजिते दुर्गमं तस्मिन्वालिपुत्र विलोदरम् ॥ २३ ॥
 
तानथाश्वास्य चकितानालोच्य सह मन्त्रिभिः ।
चचाल वालितनयः प्रतिमलकुतूहली ॥ २४ ॥
ततः प्रतिभटाटोपश्रवणानन्तरोत्थिताः ।
जगृहुर्विग्रहातमनीकस्था वलीमुखाः ॥ २५ ॥
येऽपि प्रत्याययुर्भग्रास्तेऽपि तत्रोहुरूद्धतिम् ।
किमप्युन्मीलति स्थाम प्रभोः शूरस्य संनिधौ ॥ २६ ॥
 
तेन शौर्यरसेनासीदनाश्वानपि मूर्छता ।
प्रकामपीत संभुक्तसंकाशो वालिनन्दनः ॥ २७ ॥
 
जगाम सिद्धौषधतामसावारभटीरसः ।
सद्यश्चिकित्सितासाध्यप्लवगाध्वश्रमज्वरैः ॥ २८ ॥
 
चेलुरुन्मूलितासन्नद्रुमशैलायुधोद्धताः ।
प्रत्येकमरिसंहारमाशंसन्तः प्लवङ्गमाः ॥ २९ ॥
तेऽभिजग्मुस्तमुद्देशं यत्रोत्सार्य कपीनसौ ।
पुनर्भेजे विलद्वारि विस्रब्धप्रवलायितम् ॥ ३० ॥
अभिवीक्ष्य बिलद्वारि वानरास्तं महौजसम् ।
चक्रुः किलकिलाशब्दं ववल्गुश्च बलोत्कटाः ॥ ३१ ॥
अलक्ष्यत विलद्वारि घोरे घोराकृतिः स तैः ।
समारूढो यमस्येव जिघांसोर्व्यात्तमाननम् ॥ ३२ ॥
 
१. BC चुरुद्धतम् । २ B परिश्रमः । ३. A घोरघोराकृतिः सतैः ।