रामचरितम् /125
This page has not been fully proofread.
एकादशः सर्गः ।
छित्वा शतसरं हारं हत्वा पादेन शेखरम् ।
उच्चैरसित्वा श्रवसोरश्रयन् शरणं दिशः ॥ ११ ॥
तेनापनिद्रः क्षोभेण करमृष्टारुणेक्षणः ।
उदियायायुधी क्रोधः कोऽप्यसौ कायवानिवं ॥ १२ ॥
ददृशुस्तस्य दूरस्थाः कपयः कायसौष्ठवम् ।
सोऽपि तान्त्रीक्ष्य काक्षेण क्षणमुद्भूतत्रागर्भूत् ॥ १३ ॥
कपिकीटा: कुतो यूयमागताः कालनोदिताः ।
खिलीकृतं मयोद्देशं निश्शलाकं शयालुना ॥ १४ ॥
क्षान्तं प्रमादकापेयमिदं वः प्रतिगम्यताम् ।
अथावलेपः स्फुरति क्रियतामायुधग्रहः ॥ १५ ॥
इति वाचि प्रगल्भायां तस्य ते जातसाध्वसाः ।
परस्परस्य पश्यन्तः प्रत्यपद्यन्त नोत्तरम् ॥ १६ ॥
प्रत्युद्योतहतोद्योताः खद्योता इव ते दिवा ।
अध्वान्तचकिता: पेतुर्गुल्मस्य महतस्तले ॥ १७ ॥
ऊचु: सेनापतिं नाथ बिलमस्माभिरीक्षितम् ।
दूरादेव चैं दुर्वारद्वारपूरुषभीषितैः ॥ १८ ॥
सर्वे वयमधो नीतास्तेनात्युद्धतया गिरा ।
गिरयः सागरेणेव महाप्रलयवेलया ॥ १९ ॥
स रक्षति बिलं वीर व्यक्तं नक्तञ्चरेश्वरः ।
किं भृयसाऽस्त्यसन्देहं तत्रैव जनकात्मजा ॥ २० ॥
विप्रचित्तिप्रभृतिषु प्रकृष्टो दनुजेषु वा ।
स निद्रया विनयते तत्रेन्द्रविजयश्रमम् ॥ २१ ॥
१. BC स्वरं २. AB यक्रुधा योधः कोऽययं कोपवानिव । ३. A मद्भुतवान । ४. CDन । ५. CD
स्थ । ६. CD तदूगदेव ।