This page has not been fully proofread.

९०
 
बिलदर्शनो नाम
 
अरोचत समस्तेभ्यो वालिपुत्रस्य तद्वचः ।
बृन्दे तत्र ध्रुवा सिद्धिर्मिथो यत्रैकवाक्यता ॥ १०८ ॥
ते विनिश्चित्य सुचिरं वानरेन्द्रास्तरस्विनः ।
प्रतस्थिरे यूथवराः प्रातः पत्ररथा इव ॥ १०९ ॥
तत्तद्विचिक्युर्विन्ध्याद्रेर्वानरेन्द्रा वनान्तरम् ।
यत्र यत्र कृतः पूर्वं नेदीयस्त्वादनादरः ॥ ११० ॥
विचित्य विन्ध्यमखिलं लेभिरे हरयः श्रमम् ।
असूच्यत न स क्कापि रामरामामलिम्लुचः ॥ १११ ॥
अथापतन्नपर्यन्तं ज्वलन्तं गिरिजङ्गलम् ।
मूर्तिमन्तमिवायातमयोगं रामसीतयोः ॥ ११२ ॥
 
विचिन्वन्तश्विरतरं यत्र श्रान्ता वनौकसः ।
लतामपि लघुच्छायां नासेदुमैथिलीं कुतः ॥ ११३ ॥
 
ग्रावाणो रावणक्रूरास्तैराक्रान्ताः पदे पदे ।
आसादिता पुनः क्वापि न सीताशीतला सरित् ॥ ११४ ॥
 
समन्तादुर्भुज्यन्त केवलं वालुकासु ते ।
शुष्कानना: शुष्कनदी: खनन्तोऽम्बु न लेभिरे ॥ ११५ ॥
 
गिरिष्वमार्गन् प्लवगास्तृगोच्चलितासवः ।
सभ्यस्तसीताविचयाः प्रपातसलिलस्रुतिम् ॥ ११६ ॥
 
इतस्तत: सिकतिलाः स्थलीस्तेजस्तरङ्गिणीः ।
ते निपेतुः पयोमोहात् पिपासार्तास्तपस्विनः ॥ ११७ ॥
 
अथ स्तिमितपक्षाग्रामुन्नमन्तीमदूरतः ।
ददृशुः सारस श्रेणीमासन्नजलशंसिनीम् ॥ ११८ ॥
मस्निग्धशालश्यामं सीमान्तमलभन्त च ।
सिद्धयेवॉर्पितमुत्सङ्गमनुबन्धप्रसन्नया ॥ ११९ ॥
 
द्धो ।
 
१. A भु । २. द्ध्यैवा