This page has not been fully proofread.

बिलदर्शनो नाम
 
उद्द्वीक्ष्य वीक्षितचरीं वेलां वैलक्ष्यचञ्चलाः ।
मप्लुताः स्मः परावृत्य श्रीपूर्व पर्वतं प्रति ॥ ६० ॥
क्षुण्णः कपिकिशोरेन्द्र महेन्द्रः पुनरप्यसौ ।
काननं तच्च कालिङ्गं तत्पूर्वमिव वीक्षितम् ॥ ६१ ॥
 
स वृथाऽस्माभिरुद्दामधारानीरनिरागसि ।
लम्पार्ककटके पापः कापेयादवलोकितः ॥ ६२ ॥
 
अनुगोदं गतामोदा गताः स्मस्तदनन्तरम् ।
विप्न विप्रादैराश्रमाणि निशाचरैः ॥ ६३ ॥
 
बदन्त इव वृत्तान्तमार्द्रार्द्र मैथिलीगतम् ।
चरिताश्चिरमस्माभिरुद्देशा दण्डकावने ॥ ६४ ॥
 
आहारं देहि वैदेहि क्व युवां रामलक्ष्मणौ ।
दण्डकारण्यकीराणामित्युत्कण्ठागिरः श्रुताः ॥ ६५ ॥
अनाददानाः कबलं मुहुर्वलितकन्धराः ।
उत्कण्ठिता इवात्यर्थ दृष्टाः पञ्चवटीमृगाः ॥ ६६ ॥
सौमित्रिणा शूर्पणखा यत्राक्रम्य विरूपिता ।
स देशः सूचितोऽस्मासु पङ्कशेषैस्तदङ्गकैः ॥ ६७ ॥
 
तदीक्षितं जनस्थानं यत्र ते दूषणादयः ।
रामेणैकाकिना बाणैः कौणपाः कुणपीकृताः ॥ ६८ ॥
 
दारानुदारचरितो यत्र विन्यस्य लक्ष्मणे।
गतः कनकसारङ्गनिग्रहाय रघूहः ॥ ६९ ॥
गता गॅत्वरमारीचमायाजालादधीरताम् ।
जानकी यातुधानेन यतो नीता च तेन सा ॥ ७० ॥
तावुभौ भ्रातरौ यत्र वञ्चितौ संबभूवतुः ।
 
देशः स दारुणोऽस्माभिरभव्यैरवलोकितः ॥ ७१ ॥
 
१. B C रम्याङ्क । २. B C यत्राप्ऌता । ३. A रसॄ ः । ४. B C स ।