रामचरितम् /117
This page has not been fully proofread.
दशमः सर्गः ।
कक्कोलीतरवस्तुङ्गा लवङ्गाश्च विलङ्क्षिताः ।
क्षुण्णञ्च वनमेलानां वेलायां दक्षिणोदः ॥ ४८ ॥
चैत्यषण्डेषु पाण्ड्यानां नीतं दिनमपण्डितैः ।
क्षपा च क्षपिताऽस्माभिर्विपिने वानवासिके ॥ ४९ ॥
कलहा रीतयस्ताश्च यत्रोद्दामाच॑कासति ।
कलहारीतैकण्ठानां द्वन्द्वानामधिरोहताम् ॥ ५० ॥
यत्र ता निष्कुटभुवः स्फुटन्मारीचकोरकाः ।
राजन्ते द्रॉविडीदन्तज्योत्स्नापीतचकोरकाः ॥ ५१ ॥
अपातवहारमैरीचिरुचिराजिरैः ।
सोऽपि चोलाजनपदः प्रविश्य सुविचारितः ॥ ५२ ॥
स्थानान्तराणि दृष्टानि प्रतिष्ठाननिवासिनाम् ।
सूर्याकारौंः प्रविष्टाः स्मस्तच्च सूर्याकरं पु॒रम् ॥ ५३ ॥
दृष्टोऽन्तः कुन्त्यवन्तीनां कुन्तला: सुविलोकिताः ।
प्रत्येकञ्च तुरुष्काणां विचित्रा वृक्षवाटिकाः ॥ ५४ ॥
व्याहुताश्चाटवो लाटैर्विराटैर्वलितं भिया ।
आन्धैरुक्तानि रन्ध्राणि न काञ्चयैः किञ्चिदीरितम् ॥ ५५ ॥
गेहगर्भा विदर्भाणामाकोणान्तं विचारिताः ।
उपरुद्धानि भोजानामजिराणि गृहाणि च ॥ ५६ ॥
शीर्णा अपि दशार्णानां पर्णशाला विलोकिताः ।
प्रत्यट्टवलभीचैत्यं दत्ता दृग्दरदेष्वपि ॥ ५७ ॥
सुदृष्टौ लवणाम्भोधेस्ततः पूर्वापरौ तटौ ।
भ्रान्तं च शम्भोरभ्यर्णे गोकर्णसदनौकसः ॥ ५८ ॥
सारार्थस्पर्शनौदार्यरुद्धरोषणधार्मिकैः ।
तदव्यलीकमस्माभिः स्वामिसद्म निभालितम् ॥ ५९ ॥
१. B C यात्रोद्याने । २. Bरि । ३. BC मोहनी । ४. BCन्तिद्र । ५. Aस । ६. Aभिः ।
v. B रं। ८. A रं स । B रेपु । ९. A लोभा । १०. A ग्वरदेषु च ।