This page has not been fully proofread.

८४
 
बिलदर्शनो नाम
 
भीमानिर्झरनिर्घोषदूरोत्कण्ठशिखावलाः ।
अभीक्ष्णमीक्षितास्ताश्च मेकलाचलमेखलाः ॥ ३६॥
घनवंशीवनश्यामाः स्निग्धशाद्वलभूमयः ।
ते दृश्यरषदो दृष्टाश्चिरं वेणुमतीताः ॥ ३७ ॥
असौ गतः श्रुतिपथं तत्र तापीतटे पुनः ।
आर्तानघवधूकण्ठकरुणः कुररीरवः ॥ ३८ ॥
असावस्माभिरवंटग्रावाग्रेक्षणगोचरैः ।
प्रस्विन्नाङ्गितलैर्दूराद्गम्भीरा सरिदीक्षिता ॥ ३९ ॥
तीर्णा मही महाभाग तीर्णा चर्मण्वती नदी ।
उद्देशांस्ते च निर्बन्धान्निंर्बिन्ध्याया निरूपिताः ॥ ४० ॥
 
रूपिता साऽपि यत्नेन रत्नाकरविलासिनी ।
कान्ताखिलॆखगश्रेणीनिक्वाणा कङ्कणावती ॥ ४१ ॥
 
विशेषज्ञ विशेषेण विचिता वीचिमालिनी ।
वेलानिलघनाश्लेषतरला मुरला नदी ॥ ४२ ॥
शीलिता: स्वैरकल्लोलवेलापवनवीजिताः ।
ताश्च तारेय कावेरीकूलतालीवनालयः ॥ ४३ ॥
उद्गर्भशुक्तियुवतिस्वैरस्वीकृतसैकता ।
दृष्टाssपगा शुक्तिमती मुक्तांशुपटलोज्ज्वला ॥ ४४ ॥
 
तमः कोपितनिस्त्रास नायकाक्रान्तरोधसि ।
ताम्रपर्ण्या तथाऽस्माभिर्नाथ नीता निशीथिनी ॥ ४५ ॥
 
क्रान्ताः सन्ततमाकन्दमुकुलोषितकोकिलाः ।
केरलाः स्खलदासन्नमलयोपत्यकानिर्लोः ॥ ४६ ॥
रक्षोभुजङ्गः सोऽन्विष्टश्चिरं चन्दनशाखिषु ।
राजपादपराजीषु राजपुत्री च मार्गिता ॥ ४७ ॥
 
१, A मनिर्गम २, A त । ३, A न्तखेल ४, A लिकाः । B तलाः ।