This page has not been fully proofread.

दशमः सर्गः ।
 
अदृष्टान् पश्यतोद्देशान् विषादः क्षणमुज्झ्यताम् ।
कः कृती सकृदारम्भान्निर्बन्धिं फलमश्नुते ॥ २३ ॥
उपरुद्धोऽहमत्यर्थ कुलपुत्रा: क्लमेन वः ।
किन्त्वसौ कोपनः स्वामी न तुष्यति फलाहते ॥ २४ ॥
 
श्रमः सिद्धयवसानोऽयं तद्यतध्वमकातराः ।
गच्छन्ति क्लेशभीरूणा दूराद्दूरं मनोरथाः ॥ २५ ॥
 
उद्यमाश्च जिगीषूणां पुष्पोद्भेदाश्च शाखिनाम् ।
अग्रतो हि क्रियाभाजः फलभाजस्तु पृष्ठतः ॥ २६ ॥
पितृव्यकथितोद्देशां दिशमेतां पुनः पुनः ।
प्रयाते सुप्रभोस्तस्य रामस्यैतत्प्रयोजनम् ॥ २७ ।
 
पुनन्ति पश्यन्तमपि प्रत्यङ्गं भवताममी ।
रामार्थघटनारम्भश्रमोत्थाः स्वेदबिन्दवः ॥ २८ ॥
 
प्रत्यूचुरथ निर्जित्य कण्ठकम्पं कपीश्वराः ।
प्रश्वासनमृदूभूतसाध्वसाः स्वामिनः सुतम् ॥ २९ ॥
भर्तृदारक भक्तानामेकमागः क्षमस्व नः ।
पुनरादिश विस्रब्धं क्व यामः करवाम किम् ॥ ३० ॥
उग्रदण्डभृतो राज्ञः सुग्रीवान्न तथा भयम् ।
देवे दयावति यथा मन्दाक्षं नो रघूहे ॥ ३१ ॥
ग्रामगोष्ठसभारामा रामार्थे सुविचारिताः ।
वृक्षाम्बुगिरिदुर्गेषु मार्गितो रजनीचरः ॥ ३२ ॥
सोऽसकृद्धहुगम्भीरगुहागहनकाननः ।
करामलकसंकाशः कृतो विन्ध्यमहागिरिः ॥ ३३ ॥
असावितस्ततः स्थूलशिलाशकलघर्धरः ।
आकर्णितः सोमसुतास्रोतःकलकलारवः ॥ ३४ ॥
ते च तस्यास्तलस्रस्तव्याधीगुञ्जागणोज्ज्वलाः ।
कुञ्जा बालकरञ्जानां कूलयोरवलोकिताः ॥ ३५ ॥
१, C अवसादोऽय २. BC यतध्वं ।