This page has not been fully proofread.

दशमः सर्गः ।
 
एषोऽस्म्यहं निजवचस्सु चिरादिदानीं निस्साध्वसः कविसहस्रसमागमेऽपि ।
श्रीहारवर्षनरलोकपतेः पुरस्ताद्विस्त रिविष्णुवनमालिविचारितेषु ॥
किं शीधुभिर्भवतु फाणितशर्कराद्यैः किंवा सितासहचरैः कथितैश्च दुग्धैः ।
दुग्धाब्धिलब्धसुधयाऽपि न किंचिदेव यत्राभिनन्दसुकवेविंचरन्ति वाचः ॥
नमः श्रीहारवर्षाय येन हालादनन्तरम् ।
स्वकोशः कविकोशानामाविर्भावाय संभृतः ॥
 
अथ दशमः सर्गः ॥
 
तैरथादृश्यत पुरः परिच्छदपरम्परा ।
वाणा मौन प्रभूणामकृतार्थताम् ॥ १ ॥
निर्विकासा निरामोदा सा तैः सेनासरोजिनी ।
आवर्तमाना दहशे दिवाऽपि रजनाविव ॥ २ ॥
एकैकशः कृशैरङ्गैरुपेयुरपरिच्छदाः ।
ते शाखामृगसामन्ताः समन्तान्मुषिता इव ॥ ३ ॥
न भेजुरुच्छ्रयं पुच्छा: पिच्छोला न च सस्वनुः ।
आगता अपि कृच्छ्रेण जज्ञिरे वानरेश्वराः ॥ ४ ॥
ततस्ततोऽद्रिविषमाद्विशेषमलिनैर्मुखैः ।
 
मोघश्रमाः समाजग्मुः गोलाङ्गूलवलीमुखाः ॥ ५ ॥
दूरतोऽध्वश्रमक्षामाः कपयः कृपणैर्मुखैः ।
स्वरैश्रावितनामानो नेमुने॑तारमङ्गदम् ॥ ६ ॥
जग्मुर्जाम्बवतो मूलं मौलिभिर्दूरवन्धुरैः ।
कुण्ठमैषाः प्रभुसुतं नापश्यन् सहसा परे ॥ ७ ॥
 
विविक्तासीनमितरे मितरोचेतदिङ्मुखाः ।
परीपुरद्भुतनयं तनयं मातरिश्वनः ॥ ८ ॥
 
निषेदुरपरे पश्चान्नापरे जम्मुरन्तिकम् ।
नात्मानं ज्ञापयामासुरन्ये संनिहिता अपि ॥ ९ ॥
 
१. AC omit this २ A B D omit these two slokas ३. BC रापेतुं । ४. G स्वैरं