This page has not been fully proofread.


 
स्वैरालापवर्णनो नाम
 
१०० ॥
 
वदन्ति वर्त्म वाराहमिमाः पङ्कच्छटालयः ।
मज्जतामुद्रजन्त्येते कुञ्जराणां कटालयः
आपृच्छय गच्छन्ति वधूः सारसा नैदतीरतः ।
क्षणं विवृत्य पश्यन्ति चक्राहा नदतीरतः ॥ १०१ ॥
 
स्नानगन्धाः किरातीनामितोऽमी नलदोरवः ।
दात्यूहानामितश्चायं मदनानलदो रवः ॥ १०२ ॥
 
गच्छन्त्यमी सिन्धुतीस्ट्यद्दिनलवातपाः ।
गुहाभ्यो निर्गताः कृच्छ्रान्मुनयो जलवातपाः ॥ १०३ ॥
 
साध्वसं जनयत्येष गिरिर्गम्भीरपादपः ।
निद्रान्ते नैर्झरीः सिंहः परं निर्भीरपादपः ॥ १०४ ॥
 
नूनमेष्यत्तंमोदोषादपास्य रविरम्बरम् ।
यात्ययं मुक्तसर्वाशः पाशिनः शिविरं वरम् ॥ १०५ ॥
 
जगत्क्रामन्ति निर्विघ्ना विस्रब्धं ध्वान्तराजयः ।
परिवृत्य सहस्रांशोर्नेदानीमन्तरा जयः ॥ १०६ ॥
करोति लोलानलिनो नलिनोदरमध्यगान् ।
वायुः सकैरवामोदो वामो दोषामुखोद्भवः ॥ १०७ ॥
इति बहुरसैः स्वैरालापैरुपेतमुदामिव
 
प्रभुविरहिणां तेषां तुल्यत्वरातरलात्मनाम् ।
महितपृतनासापेक्षाणां कथं कथमप्यसौ
 
निभृतविहगे विन्ध्योत्सङ्गे जगाम निशीथिनी ॥ १०८ ॥
किमिन्दुना चन्दनवारिणा च वा किमब्जकन्दरभिनन्दवत्सलः ।
विचिन्त्यतामातुरतापशान्तये स केवलं विक्रमशीलनन्दनः ॥
 
इत्यभिनन्दकविकृतौ रामचरिते महाकाव्ये स्वैरालापवर्णनो नाम
नवमः सर्गः समाप्तः ।
 
१. A सरसोरु । B शिरसान । २. मस्मात्त । ३. BCD omit this.