रामचरितम् /111
This page has not been fully proofread.
नवमः सर्गः ।
स्तोताऽनुवादी सुलभो भृत्यः प्रत्यक्षपेशलः ।
हितैषी दुर्लभस्त्वादृक्परोक्षेऽधिकसंभ्रमः ॥ ८७ ॥
ऋक्षराज पुनः शाधि किं नः संप्रति सांप्रतम् ।
वार्ता पूर्वविसृष्टानां काऽपि नास्ति वनौकसाम् ॥ ८८ ॥
किंस्विद्दवीयसो देशानादेशाभ्यधिकान्गताः ।
विस्मृतस्वामिसत्काराः स्थिता वा यत्र तत्र ते ॥ ८९ ॥
इतस्ततश्चरन्त्येव यूथपोत्तमयूथपाः ।
ते नूनमकृतार्थत्वान्नोत्सहन्ते निवर्तितुम् ॥ ९० ॥
अद्यैव सायमथवा श्वोभूते भूतवादिनः ।
द्रष्टव्यान्द्रक्ष्यसि पुरो वीर वानरपुङ्गवान् ॥ ९१ ॥
ते दीर्घाध्वश्रमक्षामाः सान्त्वनीयास्त्वयाऽधिकम् ।
तुष्यन्त्यसाध्याद्भृत्येषु प्रभवः कुण्ठितेष्वपि ॥ ९२ ॥
ते बाह्यकरणप्रायाश्चरन्त्यन्तिक एव वा ।
दूरं पुनरुपेतोसि मनसैव हनूमता ॥ ९३ ॥
आसक्तस्त्वयि भारोऽयं मारुतौ च महाबले ।
हस्तैमात्रं दिशन्तो वामनुयास्यन्ति मादृशाः ॥ ९४ ॥
सर्वे वयं चलिष्यामः केवलं क्लेशभागिनः ।
एकः परमिमं प्रैषं पारयिष्यति मारुतिः ॥ ९५ ॥
कियच्छेषमहः पश्य हरिवीर हरत्ययम् ।
विन्ध्यः सन्ध्यातपच्छेदविच्छिन्नघनमेखलः ॥ ९६ ॥
अयं निर्गच्छति करी कन्दरादभिनर्मदम् ।
ददानः सप्तभिर्मार्गैरातपान्ते पुनर्मदम् ॥ ९७ ॥
वहन्त्यमी वनोत्सङ्गसरःपर्यन्तमारुताः ।
आकृष्टार्द्रवियोगार्तकोकप्रियतमारुताः ॥ ९८ ॥
सूचयन्ति वपाकानां पाकधूमलता नवाः ।
इतश्च पल्लीरुद्वेल्लत्तमोविरलतानवाः ॥ ९९ ॥
१ B. तुष्यन्ति भव्या । । २ A. उक्त ।
७९