रामचरितम् /110
This page has not been fully proofread.
v
स्वैरालापवर्णन म
असौ जगद्वीजपुटः परमेष्ठी परात्परः ।
प्राप्तो बत शिरच्छेदमब्रह्मण्यमुदाहरन् ॥ ७४ ॥
ज्वलित्वा तूलवत्तच्च ययौ मन्युशतार्जितम् ।
दुर्वारशिखिसंकाशे दुर्वाससि वृषण्वसु ॥ ७५ ॥
विमुक्तान्यविनोदस्य वियत्यनवलम्बने ।
केनात्मनो निमित्तेन रवेर्दीर्घाध्वनीनता ॥ ७६ ॥
औषधीनामधिपतिः सोमो राजा सुधामयः ।
गत्वा नभोन्तमायाति कथंचिद्यापितक्षयः ॥ ७७ ॥
पीतः सोऽमृतवत्पूष्णो दन्तपातपराभवः ।
भृर्गुणोद्रियमाणेऽक्षिण न विकूणितमाननम् ॥ ७८ ॥
रुजा गृहीतचरणस्तरणेरात्मसंभवः ।
शृणोति नारकाक्रन्दान्वेदनावान्महानिारी ॥ ७९ ॥
स्वर्भोगोपचितस्वाङ्गमङ्गैस्तीव्रतपःकृशैः ।
ऊहुर्महर्षयः स्कन्धैर्गतं नहुषमिन्द्रताम् ॥ ८० ॥
सौदासेन वसिष्ठस्य ब्रह्मर्षेर्नृपरक्षसा ।
ते च दीर्घ विलपतः शतं विशासिताः सुताः ॥ ८१ ॥
तनूजराजीववनं राजर्षे: सगरस्य च ।
पातालमूले कपिलशालेयेन कथीकृतम् ॥ ८२ ॥
पात्रभूताः प्रतीच्छन्ति सन्त एव महाभरम् ।
नियत्या निपतन्तीनामापदां संपदामिव ॥ ८३ ॥
नोत्कृष्यन्ते निहीनेषु विपदः संपदोऽथवा ।
उपेता या महत्स्वेव ताः प्रकर्ष विवृण्वते ॥ ८४ ॥
अपि स्यात्तातसुग्रीवः प्रणुद्य विधिसंकटम् ।
तस्योषनेता कामानां त्वन्मुखैः सखिसत्तमैः ॥ ८५ ॥
प्रसीद स्वामितनय स्वश्रेयसमतः परम् ।
त्वयैवमनुरक्तेन कस्तस्यार्थो न सेत्स्यति ॥ ८६ ॥
१ B गेंणो. २ D रक्षो. ३ A D संभो.