This page has not been fully proofread.

नवमः सर्गः ।
 
प्रतीष्टक्लेशकल्लोलः क्लाम्यतीव क्षणादयम् ।
सासारिकसमापत्तित्रशेन वशिनां वरः ॥ ३५ ॥
 
संसरत्येष न परं देवो देवर्षियोनिषु ।
अङ्गीकृतजगत्कार्यस्तिर्यक्त्वमपि गच्छति ॥ ३६ ॥
 
मना महति मीनेन तिमीनेन जलेऽमुना ।
सदयं पस्पृशे बालशैवालनिचिता त्रयी ॥ ३७ ॥
अनेन कूर्माकृतिना बिभ्रतोर्वीमकारणम् ।
जगत्यनर्ध्यतां नीतः प्रपन्नोद्वहनश्रमः ॥ ३८ ॥
अस्यैकार्णवकासारक्रीडाक्रोडस्य मेदिनी ।
दंष्ट्राशिरसि दृष्टाऽऽसीत्कल्हारकलिकोपमा ॥ ३९ ॥
वरेण्यः स हिरण्याक्षः येनातिथ्यमुपेयुषः ।
चक्रेऽस्यादिवराहस्य स्वेन कायकसेरुणा ॥ ४० ॥
बहिः स्फुरत्पीवरदोर्वरदोऽयं विराजते ।
बिभ्राणः स्फुटमुद्वेगामुद्वेगापगमान्महीम् ॥ ४१ ॥
नमोऽस्मै मन्त्रघोषाय घृतपङ्कनिषादिने ।
दक्षिणानुचरीचाटुहृष्टाय क्रतुपोत्रिणे ॥ ४२ ॥
यं दूरमैधयद्वेधाः द्वेधा तमकरोन्नखैः ।
. दैत्यं द्रवन्मरुन्मेषमेष मर्त्यमृगाधिपः ॥ ४३ ॥
अनेन स प्रतिहतत्रिपुरारिपरश्वथः ।
नखाग्रच्छेद्यतां नीतो हिरण्यकशिपुद्रुमः ॥ ४४ ॥
आत्तावरजभावेन वैरोचनिभयानतः ।
अनेनोन्नमितो भूयः सुदूरं दिवि देवराट् ॥ ४५ ॥
 
जयत्यस्य घनश्यामो धर्मनिष्यन्दनिर्झरः ।
दक्षिणः पादशिखरी स स्वर्गशिखरातिगः ॥ ४६ ॥
 
पायता प्राप्तमस्येति गौरवाद्वषभध्वजः ।
 
वहत्यद्यापि शिरसा वारि ब्रह्मकमण्डलोः ॥ ४७ ॥
 
१ A स्ने । २, Comits this sloka
 
(4