This page has not been fully proofread.

स्वैरालापवर्णनो नाम
 
अस्य नाभीसरसिजे जायतेऽन्तैः सदामिव ।
भिन्नः स्वनैर्मधुलिहां ब्रह्मणोऽध्ययनध्वनिः ॥ २३ ॥
 
प्रतिप्रलयनिद्रान्तमस्य प्रथमसंमुखः ।
नाभीसरोजे भवति स्वयंभूः सौखसुप्तिकः ॥ २४ ॥
मध्येनिद्रमयं लीलामधुरो मधुरोषितः ।
तदसृङ्मयमम्भोधिमकरोन्मकरोत्सवम् ॥ २५ ॥
अनेनार्धविबुद्धेन शय्योपान्तंगतस्तुदन् ।
निहत्य नुनुदे दूरं कीटवत्कैटभासुरः ॥ २६ ॥
 
बिभ्रता भासुरमुरो मुरोऽनेन महासुरः ।
क्रूरमुष्टिप्रहरणैः रणोत्कः क्रीडया हतः ॥ २७ ॥
 
अवग्रहातपेनेव स्थलीपृष्ठे नदा नवाः ।
शुष्यन्ति सद्यः संख्येऽस्य शङ्खध्वानेन दानवाः ॥ २८ ॥
 
विजयो विक्रमेणेव प्रकाश इव तेजसा ।
मज्ञोत्कर्षः श्रुतेनेव सुपर्णेनायमुह्यते ॥ २९ ॥
अमुं बिभर्ति पततां पाताऽलमहिलालसः ।
दैत्यानवञ्चयदयं पातालमहिलालसः ॥ ३० ॥
कालनेमितमो घोरमयमुज्ज्वलविक्रमः ।
कालनेमितमो घोरमनुष्णांशुरिवहरत् ॥ ३१ ॥
 
क्षणं व्याकृत्य काठिन्यं मरुयतिकरादयम् ।
मेघोपल इव स्वच्छो गच्छति द्रवतां पुनः ॥ ३२ ॥
आगतामागतां निद्रां मुहुरस्य महोदधौ ।
मुष्णन्त्यनाथा मरुतः प्रत्युत्पन्नमहाभयाः ॥ ३३ ॥
जागर्ति योगनिद्रालुर्यावद्दिर्व॑मडम्बरः ।
अयं नियमलोप्तव्यलोकार्तिर्लोकभावनः ॥ ३४ ॥
 
१. A जयस्यन्तः २. B C य्यामध्य । ३. C D तोद्भा । ४. A
 
B मुझ । D मुष्णन्स्यमाप्य । ६ABC डिम्ब
 
मपांसेतुमि । ५ A पुष्ण