This page has not been fully proofread.

नवमः सर्गः ।
 
अयं निहन्त्यकुपितः सृजत्ययमनुत्सुकः ।
उदास्ते चायमश्रान्तः स्वपित्ययमतन्द्रितः ॥ १० ॥
 
अयमभ्यासवैराग्यवेगनिष्पापैनिर्मलः ।
स्फुरत्यानन्दकलमः' पुण्यभाजां मनःखले ॥ ११ ॥
धावद्भिरयमत्युष्णैः प्राप्यते न क्वचिद्धहिः ।
सद्भिः निर्वापितैस्त्वन्तः समन्तादनुभूयते ॥ १२ ॥
 
विद्यावासी विलिखितक्षित्यादिवहलत्वचः ।
अयं जगत्तरोः सारः शिष्यतेऽन्तश्चिदत्यः ॥ १३ ॥
अयं व्युत्क्रान्तनिस्सारसंसारमृगतृष्णकैः ।
आनन्दसिन्धुर्विततो वीतरागैर्विगाह्यते ॥ १४ ॥
क्वचिद्वाल इवोल्लीलः क्वचिन्मत्त इवालसः ।
क्वचित्प्रलीनप्रकृतिः प्रकृतिस्थः पुमानयम् ॥ १५ ॥
कालत्रयोर्मिविजयी विक्रान्तभुवनत्रयः ।
अयं त्रयीमयो देवस्त्रैगुण्यगहनातिगः ॥ १६ ॥
असंख्यचरणो दोषमेकमप्यनुदीरयन् ।
जयत्यङ्गैरयं षड्भिर्वेदात्मा पुरुषोऽद्भुतः ॥ १७ ॥
अयं त्राता चतुर्बाहुरयं स्रष्टा चतुर्मुखः ।
अयमेव महादेवः संहर्ता च त्रिलोचनः ॥ १८ ॥
अयं ब्रह्मर्षयः पूर्वे सर्वे सिद्धगणा अयम् ।
अयं विश्वम्भरादीनि भूतानि भुवनप्रभुः ॥ १९ ॥
अजोऽयं जायते योगी जागरूक: स्वपित्ययम् ।
अयं बिभर्ति भगवानरूपो विश्वरूपताम् ॥ २० ॥
अयं स्वपिति मध्येsब्धि गृहीतचरणः श्रिया ।
दत्तप्रदीर्घावसरो विधूतभरया भुवा ॥ २१ ॥
जयत्यपारे पयास पर्यङ्कितभुजङ्गमे ।
अस्य वित्रन्भशयितं महाप्रलयपर्वणि ॥ २२ ॥
 
१. Aव। २. BC मल । ३. A रुद्ध BC अद्भि ४. BC दित्यणुः । ५AB सर्वे ।
 
१०
 
3