This page has not been fully proofread.

स्वैरालापवर्णनो नाम
 
वैन्द्यः सुतः स खलु रामपराक्रमस्य येनाद्य रामचरितार्पितसंमदेन ।
सद्यः प्रसादभरदत्तमहाप्रतिष्ठे निष्ठापितः पिशुनवाक्प्रसरोऽभिनन्दे ॥
तथा पूर्व कवेः कस्य निर्गतं जीवतो यशः ।
हारवर्षमसादेन शातानन्देर्यथाऽधुना ॥
 
' किं शीधुभिर्भवतु फाणितशर्कराद्यैः किंवा सितासहचरैः क्वयितैश्च दुग्धैः ।
दुग्धाब्धिलब्धसुधयाऽपि न किंचिदेव यत्राभिनन्दसुकवेर्विचरन्ति वाचः ॥
 
अथ नवमः सर्गः ।
 

 
अथ प्रतीक्षमाणेन सन्देशादानलम्बितः ।
युयुजे युवराजेन मार्गार्धे मार्गवाहानः ॥ १ ॥
तत्राङ्गदकुमारेण कुमारब्रह्मचारिणे ।
ऋक्षराजद्वितीयेन तेने हनुमतेऽर्हणा ॥ २ ॥
अगात्परिगतस्ताभ्यां कामपि श्रियमङ्गन्दः ।
नयविक्रमयोर्मध्ये निरत्यय इवोदयः ॥ ३ ॥
तस्थुर्विन्ध्यगिरिप्रस्थे तेऽथ पर्युत्सुकास्त्रयः ।
रामाङ्घ्रिपद्मरजसामामोदस्मरणान्मिथः ॥ ४ ॥
मासावधिप्रवासास्ते निन्युस्तत्रैव तद्दिनम् ।
दूरमुक्तेतरकथाः कथया मैथिलीपतेः ॥ ५ ॥
न सन्तुतोष हनुमान्नाङ्गदो न च जाम्बवान् ।
गुणान् गुणनिधेस्तस्य ब्रुवन्नाकर्णस्तुवन् ॥ ६ ॥
ब्रूत हे जाम्बवन्मिश्राः पृष्टस्त्वं मान्य मारुते ।
कोऽयमस्मद्भुवमिमामवतीर्णोऽतिमानुषः ॥ ७ ॥
कुमार कुरु विश्वासमयं स परमः पुमान् ।
विश्वार्थमुत्थितोऽम्भोधेर्गम्भीरागमगोचरः ॥ ८ ॥
 
अनादिनिधनः श्रीमानयं श्रीवत्सलाञ्छनः ।
पुरुषः पुरुषार्थानां माता सुप्रसादितः ॥ ९ ॥
 
१. B C D omit this sloks. २. A Comit this sloka ३. ABD omit this
aloka, ४. A सौ ।