This page has not been fully proofread.

अष्टमः लर्गः ।
 
७१६
 
किं दुर्गमर्गलभिदां हरिपुङ्गवानां किं दूरमिन्दुमुखि रामशिलीमुखानाम् ।
दैवं प्रसन्नमिव देवि कुरुष्व रक्षां रक्षांसि कानि कुपितस्य च लक्ष्मणस्य ॥ ९३ ॥
सह्यान्यसह्यविरहे रिपुतर्जितानि तावत्तनूदरि निधाय मनस्समाधौ ।
यावत्प्लवङ्गबलमध्यगयोर्न पश्यस्यत्यूजितानि पतिदेवरयोरदूरे ॥ ९४ ॥
इत्यादिकानि सुबहूनि रघुन सन्दिश्य मारुतसुतः स्वमनोगतानि ।
पर्युत्सुकेन पुनरुक्तकृतप्रभूतप्रस्थानमङ्ग लविधिः स विसृज्यते स्म ॥ ९५ ॥
तमसकृदुपहूतप्राञ्जलिं जीव भूयः स्मृतिमुपदिश येनापैति' देव्या वितर्कः ।
प्रणयिनमिति रामः काममुक्त्वाऽऽञ्जनेयं कथमपि विससर्जावर्जितस्तद्गुणौघैः ॥९६॥
अनयदनिलमूनुन्यस्तकार्यातिभारः परि विरलंभटायां प्रेषितामात्यवृद्धैः ।
विमनसमथ रामं मोदयन् संकथाभिः कतिपयपरिवारो वासरान्वानरेन्द्रः ॥ ९७॥
 
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये हनूमदभिज्ञानार्पण दिल्लीपा-
न्वयवर्णनो नामाष्टमः सर्गः समाप्तः ॥
 
१. A न व्येति । २. B गत । ३. A बृन्दः ।