रामचरितम् /101
This page has not been fully proofread.
अष्टमः सर्गः ।
अथ संभृतसंस्तरेण राज्ञा जनकेनोपनिमन्त्रितः स ताभ्याम् ।
सममेव ययौ कुतुहलिभ्यां मिथिलामुक्तपिनाकिचापकल्पः ॥ ६९ ॥
ददृशेऽनिमिषेण तैर्दशाशामुखसंपातिवनीयकप्रवेशः ।
परिवत्सैलगौतमंप्रतीष्टैर्जनकानामधिपस्य यज्ञवाटः ॥ ७० ॥
अयमिन्दुमुखस्तादिन्दुमलेर्धनुरिच्छत्यवलोकितुं कुमारः।
इति स क्षितिपस्तपोधनेन स्मितपूर्व जगदे विधौ समाप्ते ॥ ७१ ॥
निमिजो नृपतिः कुमारभावात् सुकुमारं तमतीव मन्यमानः ।
उपधापैयति स्म सावहेलः स्खलितक्रूरधनुर्धरं धनुस्तत् ॥ ७२ ॥
स कृतप्रणिधिः कृतप्रणामः कृतवाणासनसंग्रहाधिरोपः ।
जनकेन ससंसदा शशंसे चिरनिर्वर्णितसौष्ठवः कुमारः ॥ ७३ ॥
स ममार्ज गुणं गुणैः समग्रो गुणघातध्वनिना दिशो बिभेद ।
ममृषे न विकर्षणं धनुस्तद्दृढदोर्दण्डैपरिष्ठितस्य तस्य ॥ ७४ ॥
जनकः कुशिकात्मजेन जोर्षं सह संमन्त्र्य समृद्धशुल्कसंस्थः ।
प्रजिघाय पुरोधसं वरार्थी नृपतेः पङ्किरथस्य राजधानीम् ॥ ७५ ॥
निरवर्तयदागतः सुतानां स चतुर्णामपि धर्मविद्विवाहम् ।
हरणातिभरालसैरिभाश्वैरथ संबन्धिगृहागृहान् प्रतस्थे ॥ ७६ ॥
स विसृज्ये सुतामगर्भजां त्वां" नृपतिर्दत्तनिरायतानुयात्रः ।
क्षणमुन्मनसं व्यनोदयत्स्वं प्रियजामातृचरित्रसंकथाभिः ॥ ७७ ॥
तमपत्यचतुष्टयैकपूज्यं पृथगत्यादरदीर्घरुद्धजन्यम् ।
अपरो नृपतिर्नुनाव गच्छन् परिपप्रच्छ वधूटिकाश्च सख्यम् ॥ ७८ ॥
तमकाण्डमहाप्रचण्डतेजचकितप्रेष्ठभटौघदुःखदृष्टः ।
श्रुतचन्द्रकिरीटचापभङ्गो भृगुवीरः स्थिरमत्सरो रुरोध ॥ ७९ ॥
अभवन्नृपतिः पुरोऽर्भकाणामथ सर्वार्पणमन्वशात्सुमन्त्रः ।
कदलीव चिरं चमूचकम्पे न विचेलुः प्रमुदः परं कुमाराः ॥ ८० ॥
१. AC षद्व २. Aमी ३. BC र । ४. A नृदु । ५. A मालीढ. ६. B तेन । ७ BC मिथःस ।
4 A वा । ९. BC विससर्ज । १० BC जातां । ११, BC ह्यम् ।