This page has not been fully proofread.

३२
 
२३ ।
 
पवमदूतम्
 
राजानी हि प्रकृतिरसवश्चेतसोऽप्यन्यनारौं
रूढ़ प्रेमप्रबल वनिताभीरवो नो लसन्ति ॥ ८३ ॥
 
तस्यास्तोत्रमरहुतभुजा दह्यमानाङ्गयष्टे-
र्न्यस्तं सद्यः स्तनपरिसरे चन्दनं शोषमेति ।
उक्तैः किंवा बहुभिरपदारोपितवान्तवृत्ते-
स्वय्यायत्तः कुवलयदृशो जौवरक्षाप्रकारः ॥ ८४ ॥
 
इत्याख्याते पुलकिततनुर्मेदिनीपुष्यकेतुः
प्रत्युत्थाय प्रणयसुभगं गाढ़माश्लिष्यति त्वाम् ।
वाक्यैरेभिः 'करुणमसृणैः कोमलत्वं भजन्ते
ग्रावाणोऽपि प्रकृतिसरसः किं पुनस्तादृशो यः ॥ ८५ ॥
 
सद्यः कृत्वा पवन विनयादष्जलिं मूर्ध्नि किञ्चिद
वक्तव्योऽसौ रहसि भवता मदगिरा गौडराजः ।
त्वत्तः श्रोष्यत्यवहितमना: मोऽनुरक्ताङ्गनानां
जायन्ते हि प्रणयिनि सुधावोचयो वाचिकानि ॥ ८६ ॥
 
प्रत्याख्यानात् विभ्य तो त्यन्वयः । स्वमन्ति कामयन्ते ।
 
प्रत्याख्यानभयादेव सा
भवदन्तिकं मोपेति इति भावः । उक्त 'अभ्यर्थनाभङ्ग भयेन साधु र्माध्यस्यमिष्टेऽप्यव स्वम्बतेऽथ '
 
इति
 
२४ ।
 
पदारोपितवान्तछतेः दुर्लभजनानुरक्तविशया इत्यर्थः ।
 
९५ । मेदिन्यां पृथिव्यां पुष्यकेतुर्मदन व लक्ष्मणसेनः सौन्दर्य्यातिरेकादिति भावः ।
त्वां प्रणयसुभगं यथा स्यात्तथा गाढ़माश्लिष्यति त्वदीयवचने स्वाभिमतप्रकटनार्थमिति मावः ।
६। चनुरक्ताङ्गमानां वाचिकानि वचनसमूहाः प्रणयिनि जने सुधावीचय इव भवन्तौति
 
अन्वयः ।
 
1. कर - A and R. कब – M. The marginal note in A explains
-करच 84 श्रवयादि ।