This page has not been fully proofread.

पवनदूतम्
 
यावन्नैते निधु'वनकलाकेलिभाजो भुजङ्गा
भोगव्याजाच्चुलुकचुलुक' मत्सरास्त्वां पिबन्ति ॥ ७ ॥
 
श्रीखण्डाद्रेः परिसरमतिक्रम्य गव्यूतिमात्रं
गन्तव्यस्ते किमपि जगतो मण्डनं पाण्डा' देशः ।
तत्र ख्यातं पुरमुरगमित्याख्यया ताम्रपर्या
स्तीरे मुग्धक्रमुकतरुभिर्बद्धरेखे' भजेथाः ॥ ८ ॥
 
सम्भोगान्ते श्वथभुजलतानिः सहानां वधूनां
व्याधुन्वन्तोऽनुचितकवरीभारमव्याजमुग्धम् ।
 
अस्मिन् सद्यः श्रमजलनुदः सौधजालैरुपेत्य
प्रत्यासन्ना मलयमरुतस्तालवृन्तोभवन्ति ॥ ८ ॥
 
क्रीड़ाशैलं भुजगनगरौयोषितां कौतुकच्श्चेत्
सेतुः याया जलधिकरिणः शृङ्खलादाम दौर्घम् ।
 
७। निधुवन मेथुनम् । चुलुकम् गण्डूषम् । मारा अन्यशुभदेषिणः, भुजङ्गानां
स्वभावकौटिल्यादिति भावः ।
 
८। श्रखण्डा' मलयपर्वतस्य । " गव्यतिः स्त्री क्रोशयुगम्" इत्यमरः । उरगपुरम्
इति ताप सरितस्तौरवत्र्त्ती पुरविशेषः । क्रमुक तरुभिरुपलचिते इति शेषः ।
मिन् उरगपुरे इति यावत् ।
 
1.-f-R. --A.
 
2. लकं R. - लुकं - M and A.
 
3.-M.
 
--A.
 
4.
 
खेभ - A.
 
- खर्भ- M.
 
5.
 
– किरण: — M.
 
-करिण: - A. कारिण: - H