This page has not been fully proofread.

पवनदूतम्
 
+*i+
 
श्रस्ति श्रोमत्यखिलवसुधासुन्दरे चन्दनाद्रौ
गन्धर्वाणां कनकनगरौ नाम रम्यो निवासः ।
'है मैर्लीलाभवन शिखरे रम्बरं व्यालिखद्भि-
धत्ते शाखानगरगणनां यः सुराणां पुरस्य ॥ १ ॥
 
तस्मिन्नेका कुवलयवतौ नाम गन्धर्व कन्या
मन्ये जैत्रं मृदु कुसुमतोऽप्यायुधं या स्मरस्य ।
दृष्ट्वा देवं भुवनविजये लक्ष्मणं चौणिपालं
बाला सद्यः कुसुमधनुषः संविधेयोबभूव ॥ २ ॥
 
बाल्येष्वालोष्वपि मनसिजं मानभिव्यञ्जयन्ती
पाण्डुतामा कतिचिदनयत् कातरा वासराणि ।
गन्तु देशान्तरमथ मधावन्यथैव प्रवृत्तं
 
गाढ़ोत्कण्ठा मलयपवनं सप्रणामं ययाचे ॥ ३ ॥
 
१। चन्दनाद्रौ मलयपर्वते । उत्तुङ्ग र्हेममयेः क्रौड़ागृह शिखरे र्यो निवासोऽमरावती-
सादृश्यं भजत इति भावः ।
 
२। नैव जयशीलम् । चौणिपालं नरपतिम् । वाणं लचाणसेनाख्यं गौड़ाधिपम् ।
संविधयोवभूव वशगा जाता । एतेन लक्ष्मण सेनस्य सौन्दर्य्यातिरेको व्यन्यते ।
 
३। 'बालिः सखो वयस्था च' इत्यमरः । वसन्ते मलयानिल उत्तर गौड़ाभिमु
प्रवहतीति चनन्तरङ्गमपि तं कुवलयवतो ययाचे कामपीडातिशय्यादिति भावः ।
 
1. रेमे - M. 4,