This page has not been fully proofread.

[ 35 ]
 
गौरवनिदानभूतं 'कविराज' - लाञ्छनं समधिगतवान्, गौड़ेश्वर-
लक्ष्मणसेनसकाशाच्च 'दन्तिव्यूहं कनकलतिकां चामरं हेमदण्डच्च'
गौरवातिरेकद्योतकं सम्प्रापेति चित्रमिव प्रतिभाति । सम्भाव्यते
च एतदीयकविराजविरुदेन 'वाक्सन्दर्भाः कतिचिदमृतस्यन्दिनो
निर्मिताश्च' इति पवनदूतगते तदीयवचनेन च यथानेन इदानीमनुप-
लभ्यमानान्यपि कानिचन निम्मितानि काव्यानि येषां गुणगणसमा-
कृष्टेन लक्ष्मणसेनेनास्य प्रविहिता समुचिता सम्मानना । सदुक्तिकर्णा-
मृतशार्ङ्गधरपद्धतिप्रभृतिषु धोयोक्कृतित्वेनोपन्यस्ताः पवनदूतबहिर्भूता
विंशतिः श्लोकाः एवमेव केषाञ्चन काव्यान्तरणामेवांशा भवेयुरित्य-
बुमिनुमः । न च सूक्तिग्रन्थेषु धोयोक्कृतित्वेन समुपस्थापितानां
'पवनदूत'गतानां पवनदूतातिरिक्तानां वा श्लोकानां समुन्यास-
वेलायां ग्रन्थस्य कस्याप्य, लेखो दृश्यते धोयोक्तस्य । धोयोक्कृतित्वेन
चोपन्यस्तास्ते श्लोका इतः पूर्वमेवात्र ग्रन्थे एकत्र संनिवेशिताः ।
 
धोयोकाव्यस्य गुणागुणाः ।
 
धोयीकविसमकालीनानां तदीयकवित्वविषये कोदृशो प्रसोत्
धारणा इति तु प्रथमतस्तावदालोचनौयम् ; अनन्तरञ्चाव विषये
अस्मदीयं मतं प्रकटयामः । जयदेवोयगोतगोविन्दकाव्ये च तात्-
कालोनकविवर्य्याणां वर्णनगर्भः समुपलभ्यते कश्चन श्नोको
'वाच: पल्लवयतो' त्यादि । एष च श्लोक स्तात्कालोनकवौनां दोष-
प्रदर्शनमय इति व्याख्यातं टोकाक्कद्भिः । तथा चोक्तं रसमष्जय्र्या -
 
मेतत्श्लोकव्याख्यानावसरे धोयीकविमाश्रित्य यथा - 'धोयी
कविक्ष्मापतिः । धोयौनामा कविराज: श्रुतिधरः श्रुतिः श्रवणं तन्मात्रा-
देव हृदयग्राहो । तस्योच्चारितमात्रग्राहित्वमेव न कवितायां
कौशल्यमिति भावः । महाहङ्कारकथनाय राजोपमा । तथाहारादेव
स्वस्य कविराजपदवीमानीतवान् । सत् कविमध्ये तु तस्य गणनापि
मेति भावः' इति ।