This page has not been fully proofread.

28]
 
स्तोकायितयतयेव' तथा तथैव
 
कान्तिर्धनोभवति दीर्घविलोचनायाः ॥
 
— धोयोकस्य ।
 
न क्रीड़ागिरिकन्दरेषु रमते नोपैति वातायनं
दूराद देष्टि गुरु' निरस्यति लतागारे विहारस्पृहाम् ।
आस्ते सुन्दर सा सखीप्रियगिरामाश्वासनैः केवलं
प्रत्याशां दधतौ तया च हृदयं तेनापि च त्वां पुनः ॥
 
—धोयोकस्य ।
 
संरुहाः कथमप्यमङ्गलभयात् पक्ष्मान्तरव्यापिनोऽ
प्युत्तालोक्कृतलोचनं निपुणया वाष्पाम्भसां विन्दवः ।
न्यस्यन्त्याः सहकारपल्लवमथ व्यानम्य पत्युः पुरो
धारावाहिभिरेव लोचनजलैर्यात्राघटः पूरितः ॥
 
- धोयोकस्य ।
 
श्राजन्मव्यवसायिना क्रतुशतैराराध्य पुष्पायुवं
केनाकारि पुरा तन्दरि तनुत्यागः प्रयागभ्भ्रमे ।
यस्यार्थे सखि लोलनेत्रनलिनौनालायमानखलद-
वाष्पाम्भःपतनान्तरालवलितग्रीवं पथः पश्यसि ॥
 
— धोयोकस्य ।
 
,
 
यत् पुष्णासि पिकान् 'अकारणरिपूनध्यन्यवामभ्भ्रुवां
यच्चाच्छिद्य बलिं विलुम्पसि करात् सर्वं सहिष्ये तव ।
 
1. तयैव - A. S. तयैव - M. The reading here which is hopelessl
 
corrupt gives rise to a fault in the metre.
 
2. करण – M. कारण - A, S.