This page has not been fully proofread.

पूजासमु.
 
चंद्रमामनमो० ॥ अनं
 
ब्र॒ह्म॒णो॑स्य॒० त्वमेवपृथिवीज्योतिर्वायुराकाशमच्युत॥ त्वमेवज्योतिपांज्योतिर्दीपोयंप्रतिगृह्यतां ॥ दीपं ॥ चंद्रमा॒मन॑सो० ॥ अन्नं
चतुर्विधंस्वादुरसैःषडिःसमन्वितं ॥ भक्त्यानिवेदितंतुभ्यं० नैवेद्यं ॥ इदंफलं० फलं ॥ पूगीफलं० तांबूलं ॥ हिरण्यगर्भ० दक्षि
णां श्रियेजातः ॥ नीराजनंसुमंगल्यंकर्पूरोद्भासितंविभो ॥ चंद्रार्क वह्निसदृशंदा मनप्रतिगृह्यतां ॥ नीराजनं ॥ नाभ्या॑आसी० ॥
नमोवामनरूपायनमस्तेस्तुत्रिविक्रम ॥ नमस्तेबलिबंधायवासुदेवनमोस्तुते॥ नमस्कारं ॥ स॒प्ता स्या॑ सन् ० यानिका नि०प्रदक्षिणां ॥
य॒ज्ञेन॑य॒ज्ञ० ॥ मत्स्य॑कूर्मवराहँच नरसिंहचवामनं ॥ रामंरामंचकृष्णंच अर्चयामिनमोनमः ॥ पुष्पांजलिं ॥ नमस्तेपद्मनाभायनम
स्तेजलशायिने ॥ तुभ्यमर्ध्यप्रयच्छामि बालवामनरूपिणे ॥ विशेषार्घ्यं ॥ जगदादिर्जगद्रूपोह्यनादिर्जगदंतकृत् ॥ जलाशयोज
गद्योनिःप्रीयतांमेजनार्दनः ॥ नमोनमस्तेगोविंदभुवनेशत्रिविक्रम॥अघौघसंक्षयंकृत्वासर्वकामप्रदोभव ॥ मंत्रहीनं० प्रार्थनं ॥
एवं संपूज्य गीतादिमंगलैरात्रौ जागरित्वा प्रातर्नित्य कर्माते देवं संपूज्य विसृज्य विप्रंसंपूज्य शिक्यस्थजलकलशयुतंसोपस्करंतंदद्या
त् ॥ दानमंत्रः॥ वामनंसर्वतोभद्रंद्विजायप्रतिपादये॥ प्रीयतां तेन देवेशोममनित्यंजनार्दनः ॥ ग्रहणमंत्रः ॥ वामनोबुद्धिदोदाताद्र
व्यस्थोवामनःस्वयं ॥ वामनोस्यप्रतिग्राहीवामनायनमोनमः ॥ ततस्त्रीन्विप्रान्पृषदाज्यदध्योदनयुतान्नेनसंभोज्य कर्मसमाप्य
स्वयंभुंजीत ॥ अथवा वाचकायप्रतिमावस्त्रादिदत्वावामनप्रीत्यर्थब्रह्मचारिणंसंभोज्य तस्मैदंडच्छत्रोपानहशिक्यादिदद्यात् ॥ मं
त्रस्तु॥ दध्योदनयुतंशिक्यंवारिधानीयुतंविभो ॥ छन्त्रोपानहसंयुक्तंब्राह्मणायददाम्यहं ॥ एवंद्वादशवर्षकृत्वोद्यापनं कुर्यात् ॥
॥ ४७ ॥ अनंतचतुर्दशीपूजा ॥ आचमनादिदेशकालौस्मृत्वा ममसकुटुंबस्यक्षेमस्थैर्यायुरारोग्याद्यभिवृद्ध्यर्थंगजाश्वल
 
अनंतचतु
 
॥ ४७ ॥
 
D
 
॥ ४५ ि