This page has not been fully proofread.

बू. स. ८
 
दोरकबंधनं ॥ हरपापानिसर्वाणितुष्टिंकुरुदयानिधे ॥ प्रसीदत्वमुमाकांतदीर्घायुः पुत्रदोभव ॥ इतिजीर्णदोरकमुत्तार्यसंपूज्य वि
प्रायदत्वात्रतसंपूर्त्यैवायनंदद्यात् ॥ उपायनमिदं० ॥ शंकरःप्रतिगृह्णातिशंकरोवैददातिच ॥ शंकरस्तारकोस्माकंशंकरायनमो
नमः ॥ इतिमंत्रेणैकादशमंडकान्वेष्टकान्वासघृतान्दत्वास्वयंभुंजीत ॥ इतिमुक्ताभरणसप्तमी ॥ ४ ॥
 
॥४॥
 
॥४४॥ ज्येष्ठागौरीपूजा ॥ पूजादिनात्पूर्वेयुर्यथाचारंपटभित्तिलिखितमूर्तिषुहेमादिप्रतिमासुपुस्तकेषुन द्याद्याहृत सिकता
सुवाज्येष्ठावाहनादिकृत्वा रात्रौगीतादिनाजागरोत्सवः कार्यः॥आचम्यदेशकालौनिर्दिश्य ममश्रीज्येष्ठागौरीप्रीतिद्वाराविविध
वंध्यात्वदारिद्र्यादिसकलदोषनिरासपूर्वकंपुत्रपौत्राभिवृद्धिस्थिर सौभाग्य महैश्वर्याद्यभीष्टसिद्ध्यर्थज्येष्ठादेव्याआवाहनं तदंगत्वे
नपूजनंचकरिष्ये ॥ संभारप्रोक्षणांते ॥ एह्ये हित्वंमहाभागेसुरासुरनमस्कृते ॥ ज्येष्ठेत्वं सर्वदेवेशि मत्समीपेसदाभव ॥ इतिमंत्रेणा
वाह्यपूजयेत् ॥ परे धुर्देशकालौ० ज्येष्ठादेव्याःपूजनंकरिष्ये ॥ त्रिलोचनांशुक्लदतींबिभ्रतींराजतींतनुं ॥ विरक्तांरक्तनयनांज्ये
ष्ठांवैचिंतयाम्यहं ॥ इतिध्यात्वा ॥ पुत्रदारविवृद्ध्यर्थंलक्ष्म्याश्चैवविवृद्धये ॥ अलक्षम्याश्चविनाशायज्येष्ठेत्वामर्चयाम्यहमिति ॥
ज्येष्ठायैते नमस्तुभ्यं श्रेष्ठायै ते नमोनमः ॥ शर्वाण्यैतेनमस्तुभ्यंशां कर्यैतेन मोनमइतिमंत्रेणावाहनादिभिः पूजयेत् ॥ यद्वा - श्वेतसिं
हासनस्थातुश्वेतवस्त्रैरलंकृता॥ वरंचपुस्तकंपाशंबिभ्वत्यैते नमोनमः ॥ आसनं ॥ ज्येष्ठेदेविनमस्तुभ्यं श्रेष्ठेदेविनमोनमः ॥ समु
। द्रमथनोत्पन्नेगृह्यतांपाद्यमुत्तमं ॥ पाद्यं ॥ श्री खंडक र्पूरयुतनानापुष्पैः सुवासितं ॥ गृहाणार्घ्यमयादत्तंज्येष्ठेदेविनमोनमः ॥ अर्घ्यं ॥
निर्मलंसलिलंगांगंश्रीज्येष्ठेवरदायिनि ॥ वासितंचसुगंधैस्तुगृहाणाचमनीयकं ॥ आचमनं ॥ नानातीर्थसमानीतंसुगंधिजलमु
 
-