This page has not been fully proofread.

यलोकानां हितकारिणे ॥ वसिष्ठाय इदम ० ॥७॥ अरुंधतिनमस्तुभ्यंवसिष्ठप्रियकारिणि ॥ पतिव्रतानांसर्वासांधर्मशीलप्र
वर्तके । अरुंधत्यैन • इदम०॥८॥) एतेसप्तर्षयः सर्वेभक्त्यासंपूजितामया ॥ सर्वेपापंव्यपोहंतु ज्ञानतोज्ञानतःकृतं । आवा
हनन ० प्रार्थना ॥ कृतव्रतस्यसांगतासिद्ध्यर्थवायनप्रदानंकरिष्ये ॥ ब्राह्मणसंपूज्य ॥ वायनंफलसंयुक्तंसघृतंदक्षिणायुतं ॥ द्विज
वर्यायदास्यामिव्रतसंपूर्तिहेतवे ॥ भवंतःप्रतिगृह्णतुज्योतीरूपास्तपोधनाः ॥ न्यूनातिरिक्त कर्माणिमयायानिकृतानि हि॥ क्षमध्वं
॥ तानिसर्वाणियूयंसर्वेतपोधनाः ॥ विसर्जनं ॥ ततःकथांश्रुत्वाऽकृष्टभूम्युत्पन्नैःशाकैःश्यामा कैनवारैर्वाहारंप्रकल्प्यऋषिध्या
 
नपराभवेत् ॥ इतिऋषिपंचमीपूजासमाप्ता ॥
 
॥ ४३ ॥ मुक्ताभरणसप्तमीपूजा ॥ भाद्रसप्तम्यांजलाशयेस्नात्वावाससीपरिधायगृहमेत्यमध्याह्नात्पूर्वमाचमनादिदेश
कालकीर्तनांतेममश्रीमदुमामहेश्वरप्रीतिद्वारा समस्तपापक्षयपूर्वकं दीर्घायुरनामयत्वपुत्रपौत्राद्यतुलसुखसौभाग्यसंपदभिवृद्धि
शिवलोकप्राप्त्याद्यभीष्टसिद्ध्यर्थेमुक्ताभरणव्रतांगत्वेन पूजांकरिष्ये ॥ गणेशपूजादिकृत्वापीठादौमंडलेउमयासहशिवंविलिख्यतद
ग्रेसौवर्णराजतंसूत्रमयंवादोरकंनिधायदेवपूजयेत् ॥ मंदारमालाकुलितालकायैकपालमालांकितशेखराय ॥ दिव्यांबरायै चदि
गंबरायनमः शिवायैचनमःशिवाय ॥ उमामहेश्वरौध्यायामि ॥ देवदेवमहेशानपरमात्मन्जगद्गुरो ॥ प्रतिपादितयासोमपूजया
पूजयाम्यहं ॥ उमामहेश्वराभ्यां आवाहनं ॥ अनेकरत्नखचितं सौवर्णमणिसंयुतं ॥ मुक्ताचितंमहादेवगृहाणासनमुत्तमं ॥ आ
सनं ॥ पाद्यंगृहाणदेवेश सर्वविद्यापरायण ॥ ध्यानगम्यसतांशंभोसर्वेश्वरनमोस्तुते ॥ पाद्यं ॥ इदमर्थ्यमनर्ध्यत्वममराधीशशं