This page has not been fully proofread.

पूजासमु.
॥ ४० ॥
 
m
 
भस्म का माद्यरिविनाशनं ॥ तस्यलेपनमात्रेण सर्वपापैःप्रमुच्यते ॥ स्नात्वाआचम्य ॥ गोमयस्त्रानं ॥ अग्रमग्रंचरंतीनामोषधीनाव
नेवने ॥ तासामृषभपत्नीनांपवित्रंकायशोधनं ॥ तन्मेरोगांश्चशोकांश्चनुदगोमयसर्वदा ॥ स्नात्वाआचम्य ॥ मृत्तिकास्नानं ॥ मृ
त्तिकेहरमेपापंयन्मयादुष्कृतंकृतं ॥ त्वयाहतेनपापेनगच्छामिपरमांगतिं ॥ स्नात्वा आचम्य ॥ अपामार्ग काष्ठेन ॥ मुखदौर्गेध्यना
शायदंतानांचविशुद्धये ॥ ष्ठीवनायचगात्राणांकुर्वेहंदंतधावनं ॥ एवं १०८ वारंस्त्रात्वा ॥ गंगेचयमुनेचैवगोदावरिसरस्वति ॥
नर्मदे सिंधोकावेरिजलेस्मिन्संनिधिंकुरु ॥ इतितुलसीदलेनजलमालोड्य ( संभवेमहासंकल्पंकृत्वा ) गंगांप्रार्थयेत् ॥ नंदिनीन
लिनीसीतामालतीचमलापहा ॥ विष्णुपादाज संभूतागंगात्रिपथगामिनी ॥ भागीरथीभोगवतीजाह्नवीत्रिदशेश्वरी ॥ द्वादशैता
निनामानियत्रयत्रजलाशये ॥ स्नानयुक्तः स्मरेन्नित्यंतत्रतत्रवसेद्धिसा ॥ शरीरेजर्जरी भूते व्याधिग्रस्ते कलेवरे ॥ औषधंजाह्नवीतो
यंवैद्योनारायणोहरिः॥पापोहंपापकर्माहंपापात्मापापसंभवः॥ त्राहिमांकृपयागंगेसर्वपापहराभव ॥ इतिप्रार्थ्यअर्ध्या दिदद्यात् ॥
एहिसूर्यसहस्रांशोतेजोराशेजगत्पते ॥ अनुकंपयमांभक्त्यागृहाणार्ध्यंनमोस्तुते ॥ सूर्यनारायणायेदमर्थ्य० ॥ भागीरथिनमस्तु
भ्यंसर्वपापप्रणाशिनि ॥ भक्त्यातुभ्यंमयादत्तंगृहाणार्ध्यनमोस्तुते ॥ गंगायैइदमयं ० ॥ कश्यपोत्रिर्भरद्वाजोविश्वामित्रोथगौ
तमः ॥ जमदग्निर्वसिष्ठश्च साध्वी चैवाप्यरुंधती ॥ अरुंधतीसहितकश्यपादिसप्तर्षिभ्य इदम: ॥ इत्यर्ध्याणिदत्वा ॥ यन्मया
दूषितंतोयंशारीरमलसंभवात् ॥ तद्दोषपरिहारार्थयक्ष्माणतर्पयाम्यहं ॥ वस्त्रं निष्पीड्य गंधपुष्पाक्षतहरिद्राकुंकुमादिभिर्गगांतु
लसींसूर्यचनाम्नापूजयेत् ॥ इतिस्नानविधिः ॥ ॥ अथपूजा ॥ ततः शुद्धेवाससी परिधाय नित्य कर्मांतेगृहमागत्याग्निहोत्रशाला
 

 
ऋषिपंच.
 
॥ ४३ ॥
 
॥ ४० ॥