2023-05-18 13:37:02 by ambuda-bot
This page has not been fully proofread.
मम ॥ पूर्णासीदीशकृपया ब्रह्मकर्मसमुच्चयात् ॥ ७ ॥ आलोच्य ग्रंथजातं सरणिमपि विदां नैकशो याज्ञिकानां संदर्भेण प्रयत्नाद्रथितवति
यथाज्ञानमुक्तं समूहम् ॥ आयातं मत्पुरस्तादहमहमिकयैकत्र सर्वे कथं नु संगृह्णीयामितीवोर्वरितमिह निबध्नामि पूजासमूहम् ॥ ८ ॥
विविधसुरपूजास्तस्मिन्नो मया विनिवेशिताः पुरुषमहिला याभिर्देवान्यजंति दिवानिशम् ॥ इति विकलतां दूरीकर्तुं सुहृद्धितसूचनात्कृतप-
रिकरोऽगुम्फं पूजासमुच्चयमादरात् ॥ ९ ॥ ग्रहणं कृतमत्र पूजनानां शरदंत: सुधियामवश्यकानाम् ॥ रविसंक्रमपातदानधर्माप्लवनामाव-
लिसंचयस्य यत्नात् ॥ १० ॥ काश्चिद्रंथांतर्गता एव पूजाः कृत्वा न्यूनाधिक्यमस्मिन्गृहीताः ॥ काश्रिच्छ्रद्धावद्भिरुरीकृतास्तास्तेभ्यः
संपाद्येह संयोजिताश्च ॥ ११ ॥ ग्रंथैः पुरातनैरेव गतार्थाः स्मः कुतो न्वयम् ॥ आडंबरो वृथास्येति मा कुवैत्वरतिं बुधाः ॥ १२ ॥ न
सर्वलभ्या अखिला निबंधा लाभेपि चेष्टोद्धरणेऽस्ति यत्नः ॥ महानिबंधाल्लघुमार्गणं नो भूयाद्गिरेर्मूषकलाभवत्किम् ॥ १३ ॥ निंदतुं
नाम कुशला अथवा स्तुवंतु कुर्वत्वनेन यजनं सुलभीकृतेन ॥ इत्थं विचार्य निरमायि समुच्चयोऽयं तुष्यंति बालचरितैः सुहृदोऽनवद्यैः
॥ १४ ॥ निंदामिया किमु सदाचरणं न कार्य गेहूं किमुंदुरुमिया विधीत नैव ॥ नो दूषणं भवति शक्त्यनुरूपकार्ये खे नित्यमात्मसदृशं
विहगा: पतंति ॥ १५ ॥ गीतास्वर्जुनमाबभाण भगवान्दोषैः समारंभका धूमेनाग्निरिवावृता इति जनानुद्बोधयंश्चेदृतम् ॥ नाश्चर्य लघुशे-
मुषीविरचिते ग्रंथेऽस्मदीये क्वचिद्दोषाः स्युः परिमार्जयंत्विति सतस्तानन्वहं प्रार्थये ॥ १६ ॥ शैवल-तुष-मलयुञ्ज्यपि जल-कण-वासांसि
यत्नतो निपुणाः ॥ किं नो गालन - संहति - संक्षालनसंस्कृतानि सेवंते ॥ १७ ॥ दोषमेवमपमार्ज्य कृतज्ञा आदरेयुरिममल्पविलासम् ॥
Sie
लक्ष्मणांगजनिरर्थयते तान्
वासुदेवपणशीकरशर्मा ॥ १८ ॥