2023-05-18 13:37:02 by ambuda-bot
This page has not been fully proofread.
पूजासमु.
॥ विद्वदभ्यर्थनम् ॥ Comm
lov
तुप्यत्वनेन देवोऽर्चयतां हार्द सदैव पूरयतु ॥ १॥
सुरपूजा – नामावलिहारं वध्वार्पये हरेः कंठे ॥
ग्रंथारंभे मंगलरूपेण नुतो यः शिष्टैर्निष्प्रत्यूह समाप्तिप्रचयार्थम् ॥ श्रौतैः स्मार्तेः कर्मभिराराध्यमनंतं भक्त्या देवं साजलिरीशं प्रण-
तोऽस्मि ॥ १ ॥ अर्चनं भगवतः करणीयं नाम तस्य मुहुरुच्चरणीयम् ॥ वेदशास्त्रसुपथाचरणीयं प्राप्नुयात्फलमतो रमणीयम् ॥ २ ॥
कचित्कलिविजृंभणे सुकृतिनोऽधुनाण्यादराद्यजंत्यनिशमीश्वरं मखजपार्चनैर्ये मुहुः ॥ त्रिवर्गफलभागिनो भगवतः कृपावीक्षणाद्भवंति
जगतीतलेऽतिसुखिनः परत्रापि ते ॥ ३ ॥ कलौ पाखंडा: स्युर्वृजिननिरता धर्मविमुखा जनाः प्रायः सत्या मुनिभणितिरेषा नहि मृषा ॥
परं त्वेतावंतं हरिगुणकथार्चादिनिरता विराजंते धन्या जगति बहुमान्याः किमु न ते ॥ ४ ॥ सदाचारासक्ताः वचन सुतसंस्कारनिरताः
परे शांव्युयुक्ता व्रतनियमरक्ताः कतिपये ॥ निवापार्थे सक्ताः क्वचन यतिदीक्षैकनिरता विराजंते तेषां परिचरणमीशार्हणमिव ॥ ५ ॥
सदाचारादियत्यंतश्रुतिमार्गानुवर्तिनाम् ॥ ब्राह्मणानां यथाशक्ति साहाय्यं करवाण्यहम् ॥ ६ ॥ इति स्वांते समारूढा लोकसेवा चिरं
प्रस्ताव.