This page has not been fully proofread.

पूजासमु.
॥ २७ ॥
 
pl
 
सर्वांगंपूजयामि ॥ सहस्रतुलसी ॥ यत्पुरु॑ष॒० वनस्पतिरसो० धूपं ॥ ब्राह्म॒णो॑०॥त्वंज्योतिः सर्वदेवानांतेजस्त्वंतेजसांपरं ॥ आ
त्मज्योतिर्नमस्तुभ्यंदीपोयंप्रतिगृह्यतां ॥ दीपं ॥ चंद्रमा० ॥ नानागंधसमायुक्तंभक्ष्यभोज्यंचतुर्विधं ॥ नैवेद्यार्थमयादत्तंगृहाणपरमे
श्वर ॥ नैवेद्यं ॥ आचमनं करोद्वर्तनं ॥ तांबूलंच सकर्पूरंपूगीफलसमन्वितं ॥ मुखवासकरंरम्यंप्रीत्यर्थंप्रतिगृह्यतां ॥ तांबूलं ॥ सौ
वर्णराजतंताम्बंनानारत्नसमन्वितं ॥ कर्मसाद्गुण्य सिद्ध्यर्थंदक्षिणांप्रतिगृह्यतां ॥ दक्षिण ॥रंभा फलंनारिकेलंतथैवाम्रफलानिच ॥
पूजितोसिसुरश्रेष्ठगृह्यतांकंससूदन ॥ फलानि० ॥ श्रियेजात० नीराजनं० ॥ कर्पूरदीपं० ॥ नाभ्या॑आसी० नमोस्त्वनंताय ●
नमस्कारः ॥ स॒प्तास्या॑ • यानिका० प्रदक्षिणाः ॥ य॒ज्ञेन ० इत्या दिवेद मंत्रैः पुष्पांजलिं० ॥ अपराधसहस्राणि० पूजांनिवेदयेत् ॥
सर्वोपचार पूजनसमाप्तौद्वादशांगुल विस्तारं रौप्यमयंस्थंडिलादिलिखितंवारोहिणीयुतंचंद्रं ॥ सोमेश्वरायसोमायतथासोमोद्भवा
यच ॥ सोमस्यपतयेनित्यंतुभ्यं सोमायवैनमः॥ इतिसंपूज्य ॥ सपुष्पकुशचंदन तोयंशंखेनादाय ॥ क्षीरोदार्णवसंभूत अत्रिगोत्रस
मुद्भव । गृहाणार्ध्यशशांकेशरोहिणीसहितोमम ॥ ज्योत्स्नापते नमस्तुभ्यंज्योतिषांपतयेनमः ॥ नमस्तेरोहिणीकांत अर्ध्यनःप्र
तिगृह्यतां ॥ इतिमंन्त्राभ्यांचंद्रायार्घ्यं दद्यात् ॥ ततः श्रीकृष्णायार्घ्यदद्यात् ॥ तत्रमंत्रः ॥ जातःकंसवधार्थायभूभारोत्तारणाय
च ॥ पांडवानांहितार्थायधर्मसंस्थापनायच ॥ कौरवाणांविनाशायदैत्यानांनिधनायच ॥ गृहाणार्घ्यमयादत्तदेवक्यासहितो
हरे ॥ श्रीकृष्णायइदमर्घ्यं० ॥ ततःप्रार्थयेत् ॥ त्राहिमांसर्वलोकेशहरेसंसारसागरात् ॥ त्राहिमांसर्वपापघ्नदुःखशोकार्णवात्प्र
भो ॥ सर्वलोकेश्वरत्राहिपतितंमांभवार्णवे ॥ त्राहिमांसर्वदुःखघ्नरोगशोकार्णवाद्धरे ॥ दुर्गतांस्त्रायसेविष्णोयेस्मरंतिस कृत्सकृ
 

 
जन्माष्ट
 
॥ ३७ ॥
 
॥ २७ ॥