This page has not been fully proofread.

पूजासमु.
 
॥ २४ ॥
 

 
भ्यंब्राह्मणायददाम्यहं ॥ इदंसोपस्करंदध्योदनवायनंअमुकशर्मणेब्राह्मणाय संप्रददे ॥ इतिशीतला सप्तमीपूजासमाप्ता ॥ ॥
॥३५॥ पवित्रारोपणं ॥ द्वादश्यांप्रातःकृत नित्यक्रियोदेश कालौसं की र्त्यमयाकृतायाःसंवत्सरावधिविष्णुपूजायाः संपूर्णफ
लप्राप्तिद्वारा श्रीपरमेश्वरप्रीत्यर्थविष्णोः पवित्रारोपणंकरिष्ये तदंगत्वेन पूजनं करिष्येइतिसंकल्प्य यथासंभवं विष्णोर्महापूजां कृ
त्वा पवित्राणिशुद्धोदकेनप्रक्षाल्यवैणवपटलादौसंस्थाप्य गंधायुपचारैः संपूज्य देवसमीपेगोदोहनकालमात्रमधिवास्य ततोमु
ख्यपवित्रंगंधदूर्वाक्षतयुक्तंकृत्वा देवकंठेसमर्पयेत् ॥ तत्रमंत्रः॥ अतोदेवा इतिवैदिकः ॥ देवदेवनमस्तुभ्यंगृहाणेदंपवित्रकं ॥ पवि
त्रीकरणार्थायवर्षपूजाफलप्रदं ॥ पवित्र कं कुरुष्वाद्ययन्मयादुष्कृतंकृतं ॥ शुद्धोभवाम्यहंदेवत्वत्प्रसादात्सुरेश्वर ॥ इतिमंत्रेणम्
लमंत्रसंपुटितेनसमर्प्य अंगदेवताभ्यञ्चतत्तन्नाममंत्रेणसमर्थ्योत्तरपूजांकृत्वामहानैवेद्यं समर्प्यनीराज्यप्रार्थयेत् ॥ मणि विद्रुममा
लाभिर्मंदारकुसुमादिदिभिः॥ इयं सांवत्सरीपूजातवास्तुगरुडध्वज ॥ वनमालांयथादेव कौस्तुभंसततंहृदि ॥ पवित्रमस्तुते तद्वत्पू
जांचहृदयेवह ॥ जानताजानतावापिनकृतंयत्तवार्चनं ॥ केनचिद्विघ्नदोषेणपरिपूर्णतदस्तुमे ॥ अपराधसहस्राणिक्रियतेहर्नि
शंमया ॥ दासोयमितिमांमत्वाक्षमस्वपरमेश्वर ॥ भूमौस्खलितपादानां भूमिरेवावलंबनं ॥ त्वयिजातापराधानांत्वमेवशरणं
मम ॥ इतिसंप्रार्श्वगुरवेब्राह्मणेभ्यश्चपवित्राणिदत्वास्वयंचधृत्वाब्राह्मणैः सहपारणंकुर्यात् ॥ ॥ ४॥
 
॥३६॥ संकष्ट चतुर्थीपूजा॥ आचम्यप्राणानायम्यदेश कालौसंकीर्त्यममविद्याधनपुत्रपौत्र प्राप्त्यर्थं समस्त रोगमुक्तिकामः श्रीसं
कष्टहरगणपतिप्रीत्यर्थं संकष्ट चतुर्थीव्रतांगत्वेनयथाशक्तिपूजांकरिष्ये तत्रादौगणपतिपूजनं कलशाद्यर्चनं च करिष्ये इतिसंकल्प्य
 
॥४॥
 
Mortala
 
संकष्टच.
 
॥ ३६॥
 
॥ २४ ॥