This page has not been fully proofread.

पूजासमु.
॥ २२ ॥
 

 
शिरः ० ॥ पुत्रदायिन्यै० सर्वागंपूजयामि ॥ अथपत्रपूजा ॥ उमायैनमः बिल्वपत्रंस ० ॥ गौ० अपामार्ग० ॥ पार्वत्यै० माल
ती० ॥ दुर्गायै ० दूर्वा० ॥ काल्यै ० चंपक ० ॥ भवान्यै ० करवीर ०॥ रुद्राण्यै ० बदरी० ॥ शर्वाण्यै ० अर्क ० ॥ चंडिकायै ० तुलसी० ॥
ईश्वर्यै० मुनि० ॥ शिवायै० दाडिमी० ॥ अपर्णायै ० धत्तूर ० ॥ धात्र्यै० जाती ०॥ मृडान्यै० मरुबक० ॥ गिरिजायै • बकुल० ॥
अंबिकायै ० अशोकपत्रं० ॥ अत्र मुष्ट्या नानाविधधान्यानि शिवायैनम इतिसमर्पयंति ॥ देवद्रुमरसोद्भूतः कृष्णागरुसमन्वितः ॥
आघ्रेयःसर्वदेवानांधूपोयंप्रतिगृह्यतां॥धूपं॥त्वंज्योतिःसर्वदेवानांतेजसांतेजउत्तमं ॥ आत्मज्योतिः परधामदीपोयंप्रतिगृह्यतां ॥
दीपं ॥ अन्नंचतुर्विधंस्वादुरसैः षड्डिःसमन्वितं ॥ भक्ष्यभोज्यसभायुक्तंनैवेद्यं प्रतिगृह्यतां ॥ नैवेद्यं ॥ मध्ये पानीयं उत्तरापोशनं हस्त
प्रक्षालनं मुखप्रक्षालनं करोद्वर्तनं ॥ इदंफलमितिफलं ॥ पूगीफल मितितांबूलं ॥ हिरण्यगर्भेतिदक्षिणां ॥ चक्षुर्दमितिनीराजनं ॥
नमोदेव्यै० पुष्पांजलिं ॥ यानिकानिचेतिप्रदक्षिणा नमस्कारः ॥ पुत्रान्देहिधनं देहिसौभाग्यं देहिमंगले ॥ अन्यांश्च सर्वकामांस्त्वं
देहिदेविनमोस्तुते ॥ इतिप्रार्थना ॥ ततोवैणवपात्रेतुसौभाग्यद्रव्यमाक्षिपेत् ॥ अन्नंकूर्पास संयुक्तंसवस्त्रफल संयुतं । वाय
नंगौरि विप्रायददामिप्रीतयेतव ॥ सौभाग्यारोग्यकामानांसर्वसंपत्समृद्धये ॥ गौरीगिरीशतुष्ट्यर्थंवायनंतेददाम्यहं ॥ इतिमंत्रा
भ्यांघायनंदद्यात् ॥ ततः ॥ ताम्रेवावैणवेपात्रेसौभाग्यद्रव्यमाक्षिपेत् ॥ लड्डुकंचुकि संयुक्तंसवस्त्रफलदक्षिणं ॥ मात्रेसुवासि
नीभ्यश्चदेर्यवायनमुत्तमं ॥ जननीं मातृसंबंधिस्त्रियः पोडशभोजयेत् ॥ नीराजनंततः कुर्याद्दीपैः षोडशसंख्यकैः ॥ भोक्तव्यादी
पकाश्चाथ स्त्रीभिः सहस्वयंततः॥ अन्नंलवणवर्जंतु मौने नभोजयेत्स्वयं ॥ सुवासिनीश्चापितथावस्त्रालंकारभूषणैः ॥ पूजयेच्चततः
 
मंग. गौरी.
 
॥ ३०॥