This page has not been fully proofread.

।॥
 
भवेद्वादश्यांकार्यः॥इयंसंन्यासिकर्तृकपूजा ॥ अथगृहस्थाद्यैरुपासकैरध्येतृ भिश्चात्र स्वस्व गुरुपूजनकार्यं ॥ तत्रोपासकैरधिका
रानुसारेणाम्नायोक्तगुरुमंडल पूजाकार्यासाचविस्तरभयात्सर्वानुपयोगान्नात्र संगृहीता ॥ सर्वेषामुपदेष्टृपूजाआवश्य की संक्षेपतो
लिख्यते ॥ देशकालकीर्तनांतेममगृहीतामुकदेवता मंत्रोपासना साफल्यसिद्धिद्वारा श्री सद्गुरुनाथ देवताप्रीत्यर्थंसद्गुरुपादुकापूज
नंकरिष्ये इतिसंकल्प्यआसनेगुरुंपश्चिमाभिमुखमुपवेश्यतत्पुरतःप्राङ्मुखः स्वगुरुंध्यायेत् ॥ आनंदमानंद करं प्रसन्नंज्ञानस्वरूपंनि
जबोधरूपं ॥ योगींद्रमीड्यंभवरोगवैद्यं श्रीमद्गुरुंनित्य महंनमामि ॥ इति अथवानमोगुरुभ्योगुरुपादुकाभ्यःइतिध्यात्वाब्राह्मणैः ॥
योनो॑ अग्ने॒अर॑रिवाँ अघा॒योर॑राती॒वाम॒र्चय॑तिद्वि॒येन॑ ॥ मंत्रगुरुःपुन॑रस्तुसोऽअ॑स्मा॒ाअनु॑मृक्षीष्टत॒न्ये॑दुरुक्कैः ॥ इतिमंत्रेणषोडशोप
चारैःपूजयेत् ॥ स्त्रीशूद्रादिभिस्तु गुरुर्ब्रह्मा गुरुर्विष्णुरितिमंत्रेणयथाविभवंपूजयेत् ॥ इति ॥
 
॥४॥
 
॥२४॥ कोकिलापूजादि ॥ आचमनादिदेशकाल कीर्तनांतेम मेहजन्मजन्मांतरस्थ सर्वपापक्षयार्थपुत्रपौत्रलक्ष्मीवृद्धिसौ
भाग्यवृद्धिद्वाराअवैधव्यसपत्ननाशाय कोकिला रूपगौरीप्रीत्यर्थंकोकिलावतंकरिष्ये इतिसंकल्प्य ॥ आषाढपौर्णमास्यांतुसंध्या
कालेह्युपस्थिते ॥ संकल्पयेन्मासमेकंश्रावणेप्रत्यहंह्यहं ॥ स्नानंकरिष्येनियमाद्ब्रह्मचर्यस्थितासती ॥ भोक्ष्यामिनक्तंभूशय्यांक
रिष्येप्राणिनांदयाम् ॥ इत्युक्त्वा ॥ स्नानंकरोमिदेवेशिकोकिलेप्रीतयेतव ॥ जलेस्मिन्पावनेपुण्ये सर्वदेवजलाशये ॥ इतिमंत्रेण
अष्टौदिनानितिलामलककल्केन ततः सर्वौषधिजलेनाष्टशैदिनानि ततोवचापिष्टेनाष्टौदिनानि ततः सर्वद्रव्यैः षड्दिनानि एवंमा
सावधिस्नानेक्रमः ॥ एवंस्नात्वारविंध्यात्वातस्मा अर्घ्यंचदापयेत् ॥ आदित्यभास्कररवेअर्क सूर्यदिवाकर ॥ प्रभाकरनमस्तुभ्य