This page has not been fully proofread.

इतिनियममंत्रः ॥ अथपूजाविधिः ॥ तत्रकुड्यादिषुचंदनादिनावटवृक्षंब्रह्मसावित्र्यादींश्चचित्ररूपेण विलिख्यतत्राथवोद्यापना
दिनासंस्कृतवटमूले पूजांकुर्यात् यथा ॥ त्रयोदश्यांनित्यविधिंसंपाद्य देशकालौसंकीर्त्यममे हजन्मनिजन्मांतरेचाखंडितसौभा
ग्य सिद्धिपूर्वकंपुत्रपौत्रभर्त्रायुरारोग्यैश्वर्यादिसुखप्राप्तये श्रीब्रह्मसावित्र्यादिदेवताप्रीत्यर्थयथामिलितोपचारैः पूजनमहंकरिष्ये
तदादौनिर्विघ्नतासिद्ध्यर्थंगणपति पूजनंकलशाद्यर्चनंचकरिष्ये इतिसंकल्प्यगणपतिंसंपूज्य कलशादींश्चपूजयित्वाध्यायेत् ॥ अथ
ध्यानं ॥ पद्मपत्रासनस्थश्चब्रह्माकार्यश्चतुर्मुखः ॥ सावित्रीतस्य कर्तव्यावामोत्संगगतातथा ॥ आदित्यवर्णाधर्मज्ञासाक्षमालाक
रातथा ॥ एवंध्यात्वा ॥ ब्रह्मणासहितांदेवींसावित्रींलोकमातरं ॥ सत्यव्रतंचसावित्रींय मंचावाहयाम्यहं ॥ चकारान्नारदंच ॥
ब्रह्मसावित्रीसत्यवत्सावित्रीयमनारदेभ्योनमः ॥ आवाहनं ॥ ब्रह्मणासहसावित्रिसत्यवत्सहिते प्रिये ॥ हेमासन॑गृहाणेदं धर्मरा
जसुरेश्वर ॥ आसनं ॥ गंगाजलसमानीतंपाद्यार्थब्रह्मणः प्रिये ॥ भक्त्यादत्तं धर्मराज सावित्रिप्रतिगृह्यतां ॥ पाद्यं ॥ भक्त्यास
माहृतंतोयंफलपुष्पसमन्वितं ॥ अर्घ्यगृहाणसावित्रिममसत्यवतःप्रिये ॥ अर्ध्य ॥ सुगंधिसहकर्पूरंसुरभिस्वादुशीतलं ॥ ब्रह्म
णासहसावित्रिकुरुष्वाचमनीयकं ॥ आचमनीयं ॥ पयोदधिघृतंचैवशर्करामधुसंयुतं ॥ पंचामृतेनस्नपनंप्रीयतांपरमेश्वरी ॥
पंचामृतस्त्रानं ॥ मंदाकिन्या:समानीतंहेमांभोरुहवासितं ॥ सावित्रिब्रह्मराजेनस्नानार्थप्रतिगृह्यतां ॥ स्नानं ॥ गंधादिपंचोप
चारैःसंपूज्यसुरास्त्वेत्याद्यभिषेकंकुर्यात् ॥ सूक्ष्मतंतुमयंवस्त्रयुग्मंकार्पाससंभव ॥ सावित्रीसत्यवद्भ्यांचभक्त्यादत्तंप्रगृह्यतां ॥
वस्त्रं ॥ सावित्रीसत्यवक्तातेधर्मराजसुरेश्वरी ॥ सावित्रिब्रह्मणासार्धमुपवीतंप्रगृह्यतां ॥ उपवीतं ॥ भूषणानिचदिव्यानिमुक्ता