This page has not been fully proofread.

सलिलंप्रभो ॥ रमारमणदेवेशाचमनंप्रतिगृह्यतां ॥ आचमनीयं ॥ पंचामृतंमयानीतं पयोदधिघृतमधु ॥ शर्करादिसमायुक्तं
स्नानार्थंप्रतिगृह्यतां ॥ पंचामृतस्नानं ॥ गंगाकृष्णागौतमीचकावेरीचशतहूदा ॥ ताभ्यआनीतमुदकंस्नानार्थं प्रतिगृह्यतां ॥
स्नानं ॥ गंधादिपूर्वपूजांसमाप्य अभिषेकंकुर्यात् ॥ ततः ॥ पीतवासस्त्वयिविभोमयान्यत्समुदाहृतं ॥ वासः प्रीत्यागृहाणेदंपुरु
षोत्तमकेशव ॥ वस्त्रं ॥ उपवीतं सोत्तरीयंमयादत्तंसुशोभनं ॥ विश्वमूर्तेगृहाणेदंनारायणजगत्पते ॥ उपवीतं ॥ अश्वत्थहुतभु
ग्वासगोविंदस्यसदाश्रय ॥ अशेषंहर मेपापवृक्षराजनमोस्तुते ॥ अलंकारान् ॥ सूत्रवेष्टनं ॥ मलयाचलसंभूतंघनसारंमनोहरं ॥
विलेपनंसुरश्रेष्ठचंदनंप्रतिगृह्यतां ॥ गंधं ॥ अक्षताश्चसुरश्रेष्ठकुं० परमेश्वर ॥ अक्षतान् ॥ तुलसीजाति कमलमल्लिकाचंपका
निच ॥ पुष्पाणिहरगोविंदगृहाणपरमेश्वर ॥ पुष्पाणि ॥ वनस्पतिरसो० धूपं ॥ आज्यंच० दीपं ॥ भक्ष्यंभोज्यंलेह्यपेयेचोष्यं
खाद्यंमयाहृतं ॥ प्रीतयेपरमेशस्य दत्तंमेस्वीकुरुप्रभो ॥ नैवेद्यं ॥ प्राणापानव्यानोदानसमाना: ॥ मध्येपानीयं उत्तरापोश
नं हस्तप्रक्षालनं मुखप्रक्षालनंच करोद्वर्तनार्थे चंदनं इदंफलमितिफलानि पूगीफलमितितांबूलं हिरण्यगर्भेतिदक्षिणां ॥ त्व
द्भासाभासते लोकः कोटिसूर्यसमप्रभ ॥ नीराजयिष्येत्वांविष्णोकृपांकुरुममप्रभो ॥ नीराजनं ॥ चक्षुर्दसर्वलोकानांतिमिरस्यनि
वारणं ॥ आर्तिक्यंकल्पितंभक्त्यागृहाणपरमेश्वर ॥ कर्पूरगौरं० कर्पूरार्तिक्यदीपं ॥ मयाकायेनमनसावाचा जन्मशतार्जितं ॥
पापंप्रशमयश्रीशप्रदक्षिणपदेपदे ॥ प्रदक्षिणां ॥ व्यक्ताव्यक्तस्वरूपायसृष्टिस्थित्यंतकारिणे ॥ आदिमध्यांतही नायविष्टरश्रवसे
नमः ॥ नमस्कारं ॥ मूलतोब्रह्म० अश्वत्थायनमोनमः ॥ मंत्रपुष्पांजलिं ॥ अमासोमपूजा ॥ अमायैचनमस्तुभ्यं सोमायचन