This page has not been fully proofread.

तयुतांदमनकमंजरीमादायमूलमंत्रंपठित्वा ॥ देवदेवजगन्नाथवांछितार्थप्रदायक हृत्स्थान्पूरय मेविष्णोकामान्कामेश्वरीप्रिय ॥
इदंदमनकंदेवगृहाणमदनुग्रहात् ॥ इमांसांवत्सरींपूजांभगवन्परिपूरय ॥ पुनर्मूलंजवादेवेदमनमर्पयेत् ॥ ततोयथाशोभंद
त्वांगदेवताभ्योदत्वादेवंप्रार्थयेत् ॥ मणिविद्रुममालाभिर्मंदारकुसुमादिभिः ॥ इयंसांवत्सरीपूजातवास्तुगरुडध्वज ॥ वनमा
लांयथादेवकौस्तुभंसंततेहृदि ॥ तद्वद्दामनकींमालांपूजांचहृदयेवह ॥ जानताजानतावापिनकृतंयत्तवार्चनं ॥ तत्सर्वपूर्णतांया
तुत्वत्प्रसादाद्रमापते ॥ जितंतेपुंडरीकाक्षनमस्तेविश्वभावन ॥ हृषीकेशनमस्तेस्तुमहापुरुषपूर्वज ॥ मंत्रहीनंक्रियाहीन मित्यादि
चसंप्रार्थ्यपंचोपचारैर्देवंसंपूज्यनीराज्यब्राह्मणेभ्योदमनंदत्वा स्वयं शेषंसंधार्य सुहृद्युतः पारणांकुर्यात् ॥ मंत्रदीक्षारहितैर्नाम्नार्पणी
यं ॥ अस्यगौणकालः श्रावणमासावधिः ॥ नेदंमलमासेभवति ॥ शुक्रास्तादौतुकर्तव्यं ॥ इतिदमनारोपणविधिः॥ अस्यामेव
भारते ॥ अहोरात्रेणद्वादश्यांचैत्रेविष्णुरितिस्मरन् ॥ पुंडरीकमवाप्नोतिदेवलोकंचगच्छतीति । इतिदमनपूजा ॥ ॥ ६॥
 
॥ १२ ॥ हनूमजयंतीपूजा ॥ आचमनादिदेशकालकीर्तनांतेऽस्माकमित्यादिआचरितहनूमज्जयंतीव्रतकल्पोक्तफलावा
तये श्रीरुद्रस्वरूपिहनुमत्प्रीर्थंषोडशोपचारैः पूजनंकरिष्ये ॥ आसनविधिंन्यासान्कलशाद्यर्चनंचविधायपीठदेवताआवाहये
त् ॥ ॐ विमलायैनमः उत्कर्षिण्यै० ज्ञानायै ० योगायै० प्रहायै ० ईशान्यै० सरस्वत्यै ० अनुग्रहायै ० ॥ तद्वाह्ये पूर्वादिषुराम
भक्ताय० महातेजसे० कपिराजाय० महाबलाय० द्रोणाविहारकाय० मेरुपीठिकार्चनकारकाय दक्षिणाशाभास्कराय
सर्वविघ्ननिवारकाय० ॥ तद्वाह्ये सुग्रीवाय० अंगदाय • नीलाय० जांबवते० नलाय० सुषेणाय० द्विविदाय० मैदाय०