This page has not been fully proofread.

पूजासमु.
॥७॥
 
om
 
कॅठं० ॥ नानायुधाय० बाहू० ॥ सुमुखाय० मुखं ० ॥ पद्मनेत्राय ० नेत्रे० ॥ सुश्रुताय ० कर्णौ ० ॥ भक्तिप्रियाय० ललाटं ० ॥
सर्वेशाय० शिरः पूजयामि ॥ धूपनानापरिमलंयक्षकर्दम मिश्रितं ॥ दशांगद्रव्यसंयुक्तमंगी कुरुमयार्पितं ॥ धूपं० ॥ दीपंकां
चनपात्रस्थंनवगोघृतसाधितं ॥ अर्पयामिमहाध्वांतगजपंचास्यसन्निभं ॥ दीपं० ॥ नैवेद्यमन्नसूपाज्यशाकपक्वान्नसंयुतं ॥ स्व
र्णपात्र स्थितंस्वादुभुक्त्वात्वंतृप्तिमा नुहि ॥ नैवेद्यं ० ॥ फलानिजंबूनारिंगनिंबास्त्रकदलानिच ॥ गृहाणबदरीद्राक्षानारिकेलानि
भक्षितुं ॥ फलानि० ॥ तांबूलंमुखरागार्थंलवंगैलादिसंयुतं । पर्णक्रमुककर्पूरमुक्ताचूर्णान्वितंमुदा ॥ तांबूलं० ॥ दक्षिणांनव
रत्नाढ्यांस्वर्णरौप्यपरिष्कृतां ॥ विपुलांबहुतोषार्थस्थापयामितवाग्रतः ॥ दक्षिणां० ॥ आरार्तिक्यंतवपुरःकरोम्युज्ज्वलदीपकैः ॥
मणिकर्पूरतैलाज्यसंभवैर्लक्षसंमितैः ॥ नीराजनं० ॥ मंत्रपुष्पांजलिंपूजान्यूनत्वाधिक्यपूरणं ॥ ददामितंत्रपौराणमंत्रोच्चारण
पूर्वकं ॥ मंत्रपुष्पांजलिंसमर्प ० ॥ पदेपदेऽश्वमेधस्यफलंभवतिकुर्वतां ॥ ताः करोमितवप्रीत्यैध्यानपूर्वंप्रदक्षिणाः ॥ प्रदक्षि
णाः० ॥ नमस्कारान्प्रकुर्वेहंमनसावचसादृशा ॥ भूमिसंलग्नहृत्पादललाटकरजानुकान् ॥ नमस्कारान्० ॥ गंधरलसुवर्णाज
दूर्वाक्षतफलान्वितं ॥ विशेषार्घ्यमयादत्तंत्रतसंपूर्तिहेतवे ॥ इतिविशेषार्घ्यदत्वाप्रार्थयेत् ॥ आवाहनंनजानामिनजानामि विस
र्जनं ॥ पूजांचैवनजानामिक्षम्यतांपरमेश्वर ॥ यस्यस्मृत्याचनामोक्त्यातपःपूजाक्रियादिषु ॥ न्यूनंसंपूर्णतांयातिसद्योवंदेम
च्युतं ॥ मंत्रहीनंक्रियाहीनं भक्तिहीनंसुरेश्वर ॥ यत्पूजितंमयादेवपरिपूर्णतदस्तुमे ॥ अनेनयथाशक्तियथाज्ञानतःकृतपूजनेन
 
सर्व. पू.
 
॥९॥
 
॥ ७॥