This page has not been fully proofread.

पूजासमु.
 
वतीजाह्नवीत्रिदशेश्वरी ॥ द्वादशैतानि नामानियत्रयत्रजलाशये ॥ स्नानयुक्तःस्मरेन्नित्यंतत्रतत्रवसेद्धिसा ॥ शरीरेजर्जरीभूते
व्याधिग्रस्ते कलेवरे ॥ औषधंजाह्नवीतोर्यवैद्योनारायणोहरिः ॥ पापोहंपापकर्माहंपापात्मापापसंभवः ॥ त्राहिमांकृपयागंगेसर्व
पापहराभव ॥ इतिप्रार्थ्याअर्ध्यादिदद्यात् ॥ एहिसूर्यसहस्रांशो तेजोराशेजगत्पते ॥ अनुकंपयमांभक्त्यागृहाणार्घ्यं नमोस्तुते ॥
सूर्यनारायणायेदम० ॥ भागीरथिनमस्तुभ्य सर्वपापप्रणाशिनि ॥ भक्त्यातुभ्यं मयादत्तंगृहाणार्ध्यनमोस्तुते ॥ गंगायैइद
मर्थ्य० ॥ नमःकमलनाभायनमस्तेऽजलशायिने ॥ नमस्तेऽस्तुहृषीकेशगृहाणार्घ्यं नमोस्तुते ॥ विष्णवे इदम० ॥ इत्यर्ध्या
णिदत्वा ॥ यन्मयादूषितंतोयंशारीरमलसंभवात् ॥ तद्दोष परिहारार्थयक्ष्माणंतर्पयाम्यहं ॥ वस्त्रनिष्पीड्य गंधपुष्पाक्षतहरि
द्राकुंकुमादिभिर्गगांतुलसींसूर्यचनाम्नापूजयेत् ॥ इतिस्तानविधिः ॥
 
॥ ६॥
 
॥४॥
 

 
॥ ९१ ॥ हेमाद्रिकृतःस्नान ( महा ) सङ्कल्पः ॥ आचम्यप्राणानायम्य ॥ श्रीमन्महागणाधिपतयेनमः श्रीगुरुभ्यो
नमः ॥ श्रीसर० ॥ वेदाय० ॥ वेदपुरुषाय ॥ इष्टदेवताभ्यो० ॥ कुलदे० ॥ स्थानदेवताभ्यो० ॥ ग्रामदेवताभ्यो० ॥ वास्तुदेवता
भ्यो० ॥ एतत्कर्मप्रधानदेवताभ्यो० ॥ सर्वेभ्योदेवेभ्यो नमः ॥ सर्वेभ्योब्राह्मणेभ्योनमोनमः ॥ अविघ्नमस्तु ॥ सुमुखश्चैकदं० ॥
वक्रतुण्डमहाकाय सूर्यकोटिसमप्रभ ॥ निर्विघ्नं कुरुमेदेवसर्वकार्येषु सर्वदा ॥ वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ॥ यंत्वा
कृतकृत्याः स्युस्तं नमामिगजाननम् ॥ गणनाथंनमस्कृत्यनमस्कृत्यपितामहम् ॥ विष्णुंरुद्रं श्रियंदेवींवंदेभक्यासरस्वतीम् ॥
स्थानंक्षेत्रनमस्कृत्यदिननाथंनिशाकरम् ॥ धरणीगर्भसंभूतंशशिपुत्रंबृहस्पतिम् ॥ दैत्याचार्यनमस्कृत्य सूर्यपुत्रंशनैश्चरम् ॥
 
महासङ्क.
 
॥ ९१ ॥
 
॥ ९६ ॥