This page has not been fully proofread.


 
on
 
लंयशोवर्चःप्रजाः पशुवसूनिच ॥ ब्रह्मप्रज्ञांच मेधांचत्वंनोधेहिवनस्पते ॥ इतिवनस्पतिंप्रार्थ्य । मुखदुर्गधनाशायदंतानांच वि
शुद्धये ॥ ष्ठीवनायचगात्राणां कुर्वेहंदंतधावनं ॥ इतिदंतधावनंकृत्वा तिलामलककल्केन केशान्संशोध्य मृत्स्नानपूर्वस्नात्वा
( पुरुषकर्तृको वैदिकःस्नान विधिर्ब्रह्मकर्म समुच्चयस्थोत्सर्जनप्रयोगेद्रष्टव्यः ) ॥ अत्रव्यावहारिकः पौराणउच्यते ॥ आचमना
दिदेशकालकीर्तनांते ममात्मनः कायिकवाचिकमानसिकसांसर्गिकज्ञाताज्ञातस्पृष्टास्पृष्टभुक्ताभुक्तपीतापीतसमस्तपापक्षयद्वारा
शरीरशुद्ध्यर्थंअमुकत्रतांगत्वेनअपामार्ग
काष्ठैर्दंतधावन पूर्वक मष्टोत्तरशतमष्टौवास्नानानिकरिष्ये इतिसंकल्प्य ॥ गंगागंगेतियो
ब्रूयाद्योजनानांशतैरपि ॥ मुच्यतेसर्वपापेभ्योविष्णुलोकंसगच्छति ॥ स्नात्वाआचम्य ॥ ( सुवासिन्या ॥ हरिद्वेपीतवर्णेत्वं
हारिणीजनरंजनी ॥ अतस्त्वांलेपयिष्यामिसौभाग्यं देहिमेऽनघे ॥ इतिहरिद्रांविलिप्यस्नात्वाआचम्य ॥ कुंकुमंकांतिदंदिव्यंका
मिनीकामसंभवं ॥ स्नास्येहंकुंकुमेनातःप्रसन्नोभवमेहरे ॥ स्नात्वाआचम्य ) ॥ शरीरशुद्ध्यर्थभस्मगोमयमृत्तिकास्नानानिक
रिष्ये ॥ भस्म ॥ सर्वरक्षाकरंभस्म कामाद्यरिविनाशनं ॥ तस्यलेपनमात्रेण सर्वपापैः प्रमुच्यते ॥ स्नात्वाआचम्य ॥ गोमयं ॥
अग्रमग्रचरंतीनामोषधीनांवनेवने ॥ तासामृषभपत्नीनांपवित्रंकायशोधनं ॥ तन्मेरोगांश्चशोकांश्चनुदगोमयसर्वदा ॥ स्नात्वा
आचम्य ॥ मृत्तिका ॥ मृत्तिकेहरमेपापंयन्मयादुष्कृतंकृतं ॥ त्वयाहतेनपापेनगच्छामिपरमांगतिं ॥ स्नात्वाआचम्य ॥ गंगे
चयमुनेचैवगोदावरिसरस्वति ॥ नर्मदेसिंधुकावेरिजलेस्मिन्संनिधिंकुरु ॥ इतितुलसीदलेनजलमालोड्य ( संभवेमहासंकल्पः
कार्य: ) गंगांप्रार्थयेत् ॥ नंदिनीनलिनीसीतामालतीचमलापहा ॥ विष्णुपादाजसंभूतागंगात्रिपथगामिनी ॥ भागीरथीभोग