This page has not been fully proofread.

ब्राह्म॒णस्य॒० दीप ॥ स्नानेधूपेचदीपेचघंटादेर्नादमाचरेत् ॥ चंद्रमा॒ामन॑सो० नैवेद्यं ॥ आचम० संभवेतांबूलंदक्षिणांश्रियेजातइ
तिनीराजनंच॥ नाभ्यां आ० नमस्कारः स॒प्ता० प्रदक्षिणाः ॥ य॒ज्ञेन॑य॒ज्ञ विसर्जनंपुष्पांजलिर्वा ॥ दत्वाषोडशभिर्ऋग्भिः षोडशा
नस्यचाहुतीः ॥ सूक्तेनप्रत्यृचंपुष्पंदत्वासूक्तेनसंस्तुयात् ॥ ततः पौराणैःप्राकृतैञ्चस्तुत्वा ॥ शिरोमत्पादयोः कृत्वाबाहुभ्यांचप
रस्परं ॥ प्रपन्नपाहिमामीशभीतंमृत्युग्रहार्णवात् ॥ इतिवदन्नमेत् ॥ निर्माल्यंदेवदत्तंभावयित्वाशिरसिधारयेत् ॥ विष्णुम्
निस्थितंपुष्पंशिरसानवहेन्नरः ॥ शंखोदकंशिरसिधृत्वा देवतीर्थपूजां तेवैश्वदेवांतेवाशिरसिधार्यपेयंचतत्रक्रमः ॥ विप्रपादोदकं
पीत्वाविष्णुपादोदकंपिवेत् ॥ शालग्रामशिलातोयमपीत्वायस्तुमस्तके ॥ प्रक्षेपणंचकुरुतेब्रह्महासनिगद्यते ॥ पात्रांतरेणैवग्रा
ह्यंन करेणकदाचनेतिकमलाकरःक्षालनेन एकस्यैव वस्त्रस्यप्रतिदिनंदानेदोषोन ॥ स्वर्णादिभूषणानामप्येवमाचारः॥ इतिपूजा ॥
 
॥ ९ ॥ सर्वसामान्यपूजा ॥ आचमनादिदेशकालकीर्तनांतेममेहजन्मनिजन्मांतरेचाखिलसौभाग्यपुत्रपौत्रधनधान्यादि
समस्त मंगला वाध्यर्थं समस्त दुरितोपशांत्यर्थं समस्ताभ्युदयार्थंच अमुकदेवतापूजनंकरिष्ये ॥ तदंगत्वेनकलशाद्यर्चनं निर्विघ्नता
सिद्धयेगणपति पूजनंस्मरणंवाकरिष्ये ॥ वक्रतुंड महाकायकोटिसूर्यसमप्रभ ॥ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ मंगलमूर्तये
नमः ॥ गंगेचयमुने चैव गोदावरिसरस्वति ॥ नर्मदेसिंधोकावेरिजलेस्मिन्संनिधिंकुरु ॥ अस्मिन्कलशेगंगादिनदीः वरुणंचावाह
यामि गंधाक्षतपुष्पं समर्पयामि ॥ अगमातुदेवानांगमनार्थंचरक्षसां ॥ कुर्वेघंटारवंतत्रदेवताह्वानलक्षणं ॥ घंटायैनमःगंधा
क्षत० ॥ भोदीपब्रह्मरूपस्त्वंज्योतिषांप्रभुरव्ययः ॥ अतस्त्वांस्थापयाम्यत्रममशांतिप्रदोभव ॥ दीपदेवतायैगंधाक्षत● ॥ अप