This page has not been fully proofread.

20
 

 
यज्ञोपवीतांतेगोरोचन कस्तूरीकुंकुम कर्पूरागुरुचंदनमिश्रितानुलेपेनलिंगंलेपयेत् ॥ पंचविंशतिपल मितः सर्वोनुलेप इतिअनुलेप
परिमाणं यथाशक्तिवा ॥ धत्तूरकरवीराम्रकुसुमैर्बिल्वपत्रैश्चपूजन मतिप्रशस्तं ॥ पुष्पाभावेशालितंडुलगोधूमयवैःपूजा ॥ नैवे
द्योत्तरंतांबूलमुखवासौउ कौ ॥ नागवल्लीपत्रक्रमुक फलशुक्त्यादिचूर्णेतिन्त्रयंतांबूलसंज्ञं ॥ एतदेवनारिकेलकर्पूरैला कंकोलैः सहि
तंमुखवाससंज्ञं । शालिपिष्टनिर्मितैः षड्विंशतिघृतदीपैर्नीराजनं ॥ लिंगमूर्ध्निदध्यक्षतपुष्पदूर्वागोरोचन सर्षपयुतस्वर्ण पद्म निवे
दनं ॥ एतेषामन्यतमद्रव्यालाभेतत्तद्रव्यंस्मरेद्बुधः ॥ सर्वपूजतेप्रार्थना ॥ नित्यनैमित्तिकंकाम्यंयत्कृतंतुमयाशिव ॥ तत्सर्वं
परमेशानमयातुभ्यं समर्पितमिति ॥ एवंयामचतुष्टये र्घ्यभेदः कौस्तुभे ॥ सचेत्थं ॥ चंदनाक्षतदूर्वाकुशफलयुतमर्ध्यप्रतियामं
दद्यात् ॥ तत्रप्रथमयामेमंत्रः ॥ नमःशिवायशांताय सर्वपापहरायच ॥ शिवरात्रौमयादत्तंगृहाणार्घ्यममप्रभो ॥ द्वितीये में
याकृतान्यनेकानिपापानिहरशंकर ॥ गृहाणार्ध्यमुमाकांतशिवरात्रौप्रसीदमे ॥ महानिशि ( निशीथे ) - शिवरात्रित्रतंदेवपूजाज
पपरायणः ॥ करोमिविधिवदत्तंगृहाणार्ध्यनमोस्तुते ॥ तृतीये - दुःखदारिद्र्यभारैश्चदग्धोहपार्वतीपते ॥ त्रायस्वमांमहादेवगृ
हाणायै नमोस्तुते ॥ चतुर्थे- किंनजानासिदेवेशत्वयिभक्तिंप्रयच्छमे ॥ स्वपादाग्रतलेदेवदास्यं देहिजगत्पते ॥ ततःपूजानिवे
दनं ॥ मंत्रस्तु ॥ नमोयज्ञजगन्नाथनमस्त्रिभुवनेश्वर ॥ पूजांगृहाणमेदत्तांमहेशप्रथमेपदे ॥ इतिप्रथमयामे ॥ पूर्वेनं दिमहाकालौ
गणभृंगीचदक्षिणे ॥ वृषस्कंदौपश्चिमे तेदेशकालौतथोत्तरे ॥ गंगाचयमुनापार्श्वेपूजांगृह्णनमोस्तुते ॥ इतिद्वितीये ॥ नमोव्यक्ता
यसूक्ष्मायनमस्तेत्रिपुरांतक ॥ पूजांगृहाणदेवेशयथाशक्त्युपपादितां ॥ इतितृतीये ॥ बद्धोहंविविधैः पाशैः संसारभयबंधनैः ॥
 
-