This page has not been fully proofread.

पूजासमु.
॥ ८७ ॥
 
॥॥
 
हास्तुमे ॥ कुरुक्षेत्रमयंदेशोविप्रोनारायणःस्वयं ॥ अनेनस्वर्णदानेनप्रीयतांमेजनार्दनः ॥ इतिव्यतीपातदानं ॥
॥ ८१ ॥ माघस्रानं ॥ आचमनादिदेशकालकीर्तनांतेममकायिकवाचिकमानसिक सांसर्गिक समस्त पापक्षयद्वारा श्रीमाध
वप्रीत्यर्थमाघस्नानंकरिष्ये ॥ इतिसंकल्प्य ॥ माघमासमिमंपूर्णस्तास्येहंदेवमाधव ॥ तीर्थस्यास्य जलेनित्यमितिसंकल्प्यचेतसि ॥
इत्येकंतीर्थमुपेत्य ॥ दुःखदारिद्र्यनाशायश्रीविष्णोस्तोषणायच ॥ प्रातःस्नानंकरोग्यद्यमाघेपापविनाशनं ॥ मकरस्थेरवौमाघे
। गोविंदाच्युतमाधव ॥ स्नानेनानेनमे देवयथोक्त फलदोभव ॥ इमौमंत्रौसमुच्चार्यस्नायान्मौनसमन्वितः ॥ प्रत्यहंसूर्यार्घ्यदानमं
त्रः ॥ सवित्रेप्रसवित्रेचपरंधामजलेमम ॥ त्वत्तेजसापरिभ्रष्ट॑पापंयातुसहस्रधा ॥ इतिसूर्यायार्घ्यदत्वामाधवंपूजयेत् ॥
 
॥ ८२ ॥ रथसप्तमीपूजा ॥ अत्रवतेषष्ट्यामे कभक्तंकृत्वासप्तम्यामरुणोदयेस्त्रानं कार्यं ॥ तत्रमंत्रः ॥ यदाजन्मकृतंपापं
मयाजन्मसुजन्मसु ॥ तन्मेरोगंचशोकंचमाकरीहंतुसप्तमी ॥ एतज्जन्मकृतंपापंयच्चजन्मांतरार्जितं ॥ मनोवाक्कायजंयच्चज्ञाता
ज्ञातेचयेपुनः॥इतिसप्तविधंपापस्तानान्मेसप्तसप्तिके ।॥ सप्तव्याधिसमायुक्तंहरमाकरिसप्तमि॥ इत्यादिस्नात्वाआचमनादिदेश
कालकीर्तनांतेममश्रीसूर्यनीतिद्वाराइहजन्म निजन्मातरेचाखंड सौभाग्यपुत्रपौत्रधनधान्यादिमन सेप्सितकामनासिद्धये श्रीसू
र्यपूजांक० ॥ गणपतिपूजनकलशार्चन संभारप्रोक्षणांतेरक्तचंदनेनरथा रूढंसूर्यविलिख्यतस्मिन्सूर्ययंत्रेवा॥ ध्येयःसदासवितृमं
डलमध्यवर्तीनारायणःसरसिजासनसंनिविष्टः ॥ केयूरवान्मकरकुंडलवान्किरीटीहारी हिरण्मयवपुर्घृत शंखचक्रः ॥ इतिसूर्य
ध्यात्वा ॥ पद्मासनःपद्मकरः पद्मगर्भसमद्युतिः ॥ सप्ताश्वरथसंस्थश्च द्विभुजः स्यात्सदारविः ॥ इत्यावाहन दिषोडशोपचारान
 
11
 
रथसप्त.
 
॥ ८२ ॥
 
॥ ८७ ॥