This page has not been fully proofread.

पू. स. १५
 
। इतिश्रीदत्तपूजा संपूर्ण
 
अपराधसहस्राणिक्रियंतेहर्निशंमया ॥ दासोयमितिमांमत्वाक्षमस्वपरमेश्वर
 
॥ इत्यादिक्षमापयेत् ॥ इतिश्रीदत्तपूजासंपूर्णा ॥
 
॥ ७६ ॥ मकरसंक्रांतिः ॥ तिलस्नायीतिलोद्वर्तीतिलहोमीतिलोद की ॥ तिलभुक्तिलदाताचपतिलाः पापनाशनाः ॥देश
कालौनिर्दिश्यममकायिकवाचिकमानसिकत्रिविधपापनिबर्हणपूर्वकं श्रीसूर्यप्रसादसिद्धयेतिल कल्कोद्वर्तनपूर्वस्त्रानंकरिष्ये ॥ इ
तिसंकल्प्ययथाविधिस्नात्वायथाविभवं श्री सूर्यनारायणसंपूज्ययथाशक्तिदानादिकृत्वाअयनश्राद्धंचकुर्यात् ॥
 
॥४॥
 
॥ ७७ ॥ तिलपात्रदानं ॥ ताम्रपात्रेतिलान्कृत्वापलषोडशनिर्मिते ॥ सहिरण्यंस्वशक्त्यावाविप्रायप्रतिपादयेत् ॥ ममवा
ङ्मनःकायजत्रिविधपापनाशपूर्वकं ब्रह्मलोकप्राप्तिकामस्तिलपात्रदानं करिष्ये॥ उक्त परिमाणेताम्रपात्रेप्रस्थतिलान्कर्षसुवर्णयुता
न्यथाशक्तिसुवर्णयुतान्वाकृत्वाविप्रंसंपूज्य ॥ देवदेवजगन्नाथवांछितार्थफलप्रद ॥ तिलपात्रंप्रदास्यामितवांगेसंस्थितोह्यहं ॥
इतिमंत्रेणदद्यात् ॥ तिलाः पुण्याः पवित्राश्च सर्वपापहराः स्मृताः ॥ शुक्लाश्चैवतथाकृष्णाविष्णुगात्रसमुद्भवाः ॥ यानिकानिच
पापानिब्रह्महत्यासमानिच ॥ तिलपात्रप्रदानेनतानिनश्यंतुमे सदा॥ इदंतिलपात्रंयथाशक्तिदक्षिणासहितंसूर्यदेवत्यं ब्रह्मलोकप्रा
प्तिकामस्तुभ्यमहंसंप्रददे ॥ इतिदद्यात् ॥ अग्रेतुपुंस्त्री कर्तृका निविविधदानानिव्रतराजस्थानिसंग्रहीष्यंते ॥
 
॥ ४॥
 
॥७८॥ दधिमंथदानं ॥ प्रातस्तिल कल्कोद्वर्तनेनस्नात्वा शुचिवस्त्रपरिधाय देशकालौसंकीर्त्य ममश्रीसवितृप्रीतिद्वारा दुः
खदारिद्र्यनिरासपूर्वकंचिरजीविपुत्रपौत्रयुतधनधान्यसमृद्धिविविधभोगसुखसंपदादिमनोरथसिद्धयेदधिमंथदानं करिष्ये ॥ त
दंगंपूजनं०॥उपलिप्तभूमौ स्वस्तिकं विरच्य तत्रद्रोणमितगोधूमादिधान्यपुंजोपरि दधिपूर्ण भांडंकुंकुमाद्यलंकृतं रक्तसूत्र व स्त्रवेष्टि
 
2