This page has not been fully proofread.

O
 
स॒हस्र॑शीर्पा ० ॥ कोटिसूर्यप्रती काशंनिजानंदैक विग्रहं ॥ राजद्वैराग्यसाम्राज्यंगुरुमावाहयाम्यहं ॥ आधाहनं ॥ ( सिद्धमूर्तावा
वाहनाभावात्पुष्पांजलिः )॥ पुरु॑षए॒वेदं । यमाद्यष्टांगयोगोक्तसिद्धासनविराजते॥ मूर्त सद्गुरवे तुभ्यमासनंपरिकल्पये ॥ आसनं ॥
ए॒तावा॑नस्य ● ॥ येनत्रैलोक्यमखिलंव्याप्तंपादत्रयेणहि ॥ तस्मैसद्गुरवेपाद्यंपादयोः प्रददाम्यहं ॥ पाद्यं ॥ त्रि॒पादूर्ध्व० ॥ चंदनाक्षत
पुष्पादिफलरत्नसमन्वितं ॥ श्रद्धोपकल्पितंचार्घ्य सद्गुरोप्रतिगृह्यतां ॥ अर्ध्य ॥ तस्मा॑नि॒रा० ॥ एलालवंगकर्पूरकस्तूरीगंधवा
सितं॥ जलमाचमनीयार्थदास्येभक्त्याजगद्गुरो ॥ आचमनीयं ॥ यत्पुरुषेण ॥ तीर्थानां लोकपापौघक्षालनोत्थांहसांभिदे ॥ लीलो
पात्तावतारायस्नानंसद्गुरवेददे ॥ स्नानं । आप्यायस्वेत्यादिपंचमंत्रैः पृथक्पंचामृतस्त्रानं ॥ गंधद्वारामितिचंदनोदकस्नानं ॥
आपोहिष्ठेत्यादिभिःशुद्धोदक स्नानं ॥ पंचोपचारैः पूर्वपूजां समाप्य पुरुषसूक्तविष्णुसूक्तादिभिर्महाभिषेकंकुर्यात् ॥ स्नानांतेआ
चमनं ॥ त॑य॒ज्ञं ० ॥ आशावासायदीक्षांगकापायवसनायच ॥ काषायमंशुकंदास्येपरिधानायभिक्षवे ॥ वस्त्रं ॥ आचमनं ॥ तस्मा॑
द्य॒ज्ञात्स॑र्व॒हुतः संभृ॑तं ॥ पट्टकुलोर्णरोमोत्थवस्त्रमार्गाजिनान्यदः॥प्रावारार्थप्रदास्यामिपरित्राडूपयोगिने ॥ प्रावरणमुपवीतंवा ॥
तस्मा॑य॒ज्ञात्स॑र्व॒हुत॒ऋच॒ः ० ॥ कस्तूरीकेशरामोदयुक्तंपाटीरजंरजः॥ भस्मोद्धूलितदेहायचंदनंयतयेर्पये ॥ चंदनं ॥ सर्वालंकाररू
पायकृत्तिदंड कमंडलून् ॥ दंडिभूषा प्रदान्दास्येदत्तमस्करिणेमुद ॥। अलंकारान् ॥ अहिरिव० ॥ वेदांतकल्पवृक्षोत्थमहावाक्य
प्रसूनजं ॥ गंधमाघ्रायतृप्तायदद्यांपरिमलंमुहुः ॥ परिमलद्रव्याणि ॥ तस्मादधा॑० ॥ पुष्पवद्रहनक्षत्रमा लिने ज्ञानशालिने ॥
मालत्यादीनिपुष्पाणिगुरवेप्रतिपादये । पुष्पाणि ॥ तुलसीकुंदमंदारपारिजातांबुजैःकृतां ॥ वैजयंतीमिमांमालांगुरुकंठेर्पया
 
3