This page has not been fully proofread.

पूजासमु.
 
धितैलहरिद्राभ्यांनागवल्ली दलगृहीताभ्यांउष्णोदकेनच कनिऋददितिमंगलस्नानविष्णवेतुलस्यै च सुवासिनीभिःकारयित्वास्व
यंवादत्वा पंचामृतस्नानं समर्थ्यशुद्धोद के नाभिषिच्यवस्त्रयज्ञोपवीत चंदनंदत्वातुलस्यै हरिद्राकुंकुमकंठसूत्र मंगलालंकारान्द
॥ ८२ ॥ त्वामंत्रपुष्पांतपूजांसमाप्यघंटादिवाद्यघोषेण देवंप्रबोधयेत् ॥ तत्रमंत्रा : विष्णु० ॥ योजागार्● इतितुआचारप्राप्तः ॥
ब्रह्मंद्ररुद्राग्निकुबेर सूर्यसोमादिभिर्वदितवंदनीय ॥ बुध्यस्वदेवेशजगन्निधासमंत्र प्रभावेणसुखेनदेव ॥ इयंचद्वादशीदेवप्र
बोधार्थ निर्मिता ॥ त्वयैवसर्वलोकानांहितार्थशेषशायिना ॥ उत्तिष्ठोत्तिष्ठगोविंदत्यजनिद्रांजगत्पते ॥ त्वयिसुप्तेजगत्सुप्त
मुत्थितेचोत्थितंजगत् ॥ एवमुत्थाप्य चरणंपवित्रं ० ॥ गतामेघावियञ्चैवनिर्मलंनिर्मलादिशः ॥ शारदानिचपुष्पाणिगृहाणमम के
शव॥ इत्यादिमंत्राभ्यां पुष्पांजलिंदद्यात् ॥ अथाचारात्तुलसीसंमुखां श्रीकृष्णप्रतिमांकृत्वामध्ये॑तःपटंधृत्वामंगलाष्टकपद्यानिपठि
त्वाअंतःपटंविसृज्याक्षता प्रक्षेपंकृत्वादामोदरहस्तेतुलसीदानं कुर्यात् ॥ देवींकनकसंपन्नांकनकाभरणैर्युतां ॥ दास्यामिविष्णवेतु
भ्यंब्रह्मलोकजिगीपया ॥ मयासंवर्धितांयथाशक्त्यलंकृतामिमांतुलसीं देवींदामोदरायश्रीधरायवरायतुभ्यमेहंसंप्रददे ॥
इतिदेवपुरतःसाक्षतजलंक्षिपेत् ॥ श्रीमहाविष्णुःमीयतामित्युक्त्वाइमांदेवींप्रतिगृह्णातुभवान् इतिवदेत् ॥ ततोदेवह
स्तस्पर्शतुलस्याः कृत्वा ॥ कइदंकस्माअदात्कामः कामायादात्कामोदाताकामःप्रतिग्रहीताकामंसमुद्रमाविश कामेनत्वाप्रतिगृ
हामिकामैतत्ते वृष्टिरसिद्यौस्त्वाददातुपृथिवीप्रतिगृह्णातु ॥ इतिमंत्र मन्येनवाचयेत् ॥ यजमानः ॥ त्वंदे विमेग्र तोभूयास्तुलसीदे
विपार्श्वतः ॥ देवित्वंपृष्ठतोभूयास्त्वदानान्मोक्षमाप्नुयाम् ॥ दानस्य प्रतिष्ठासिद्ध्यर्थमिमांदक्षिणांसंप्रददे इतिदेवपुरतोदक्षिणाम
 
प्र. तुलसी.
 
॥ ७१ ॥
 
॥ ८२ ॥